________________
प्रथम शास्त्रयोगशुद्धि - अधिकारः
विषयत्वात्, यथा जैनानां संयमपालनार्थं नवकोटिशुद्धाहारग्रहणमुत्सर्गः, तथाविधद्रव्य क्षेत्रकालभावापेक्षयाऽऽपत्सु च निपतितस्य गत्यन्तराभावे पञ्चकादियतनया ऽनेषणीयादिग्रहणमपवादः सोऽपि च संयमपरिपालनार्थमेव, परपक्षे=चोत्सर्गोऽन्यार्थः, अपवादश्चाऽन्यार्थः, 'न हिंस्यात् सर्वभूतानि' इत्युत्सर्गो हि दुर्गतिनिषेधार्थः । वेदोक्तहिंसा दोषरूपा नास्तीति कथयित्वाऽपवादविधि देवताऽतिथिपितृप्रीतिसम्पादनार्थः । उत्सर्गापवादमाग भिन्नभिन्नप्रयोजनसाधकत्वादपवादविधिनोत्सर्गविधिर्बाध्यते, प्रकृते 'अन्यार्थं किञ्चिदुत्सृष्टं' इत्यादि विविच्यते यत्र - शास्त्रे, अन्यस्मै कार्याय - दुर्गतिनिषेधकार्याय, किञ्चिदुत्सर्गयुक्तं वाक्यं यथा 'न हिंस्यात् सर्वभूतानि इति, अन्यस्मै कार्याय देवताऽतिथिपितृप्रीतिसम्पादनाय, वेदोक्तहिंसा दोषरूपा नास्तीति वाक्यमपवादगोचरीक्रियतेऽर्थात् यत्र शास्त्रे विरुद्धप्रयोजनविधायकमुत्सर्गवाक्यं च विरुद्धप्रयोजनविधायकमपवादवाक्यमत एव दुष्टा- परस्परविरुद्धाभिन्नार्थका विधयश्च निषेधा यस्मिञ्शास्त्रे, तच्छास्त्रं, 'न च्छेदशुद्धिमत्'छेदशुद्धिनामकशास्त्रपरीक्षायामुत्तीर्णं नेति विज्ञेयम् ॥ २३ ॥
"
१९
हिंसादेः करणेऽपि प्रकृतिदुष्टता कथमपि न याति इति दृष्टांतेन सह वर्णनम् -
निषिद्धस्य विधानेऽपि, हिंसादेर्भूतिकामिभिः । दाहस्येव न सद्वैद्यै (सद्वेदै )र्याति प्रकृतिदुष्टता ॥ २४ ॥
'भूतिकामिभि:'=' श्वेतं वायव्यमजमालभेत भूतिकाम:' इति, भूतिकामः पशुमालभेतेति वेदवचनाधारेण भूतिकामिभिः-ऐहिकपारलौकिकभोगैश्वर्यकामिभिः (न हिंस्यात्सर्वभूतानि ) एकतो - उत्सर्गतो निषिद्धस्य प्रतिषिद्धस्य हिंसादेः अन्यतोऽपवादतोऽपि विधाने करणे दाहस्येवाग्नेरिव सद्वैद्यै हिंसादे: सद्वेदैरपि (महावेदैः) प्रकृतिदुष्टता
--