SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ १८ अध्यात्मोपनिषत् ___ यत्र सर्वत्र-यस्मिन् सर्वस्मिन् शास्त्रे विधीनां निषेधानां योगश्च क्षेमं च-योगक्षेमं करोतीति योगक्षेमकरी, अप्राप्तानां विधिनिषेधानां प्रापणं योगः, तत्करी क्रिया, प्राप्तानां विधिनिषेधानां परिरक्षणं क्षेमं, तत्करी क्रियाऽर्थात् अप्राप्तविधिनिषेधप्रापणरूपयोगप्राप्तविधिनिषेधपरिरक्षणरूपक्षेमकरी क्रिया, यत्र सर्वत्रशास्त्रे वर्ण्यमाना-कथ्यमानाऽस्ति, तत्शास्त्रं छेदशुद्धिमत्-छेदपरीक्षायां तत्-शास्त्रं शुद्धमुत्तीर्णमेवेति बाह्यक्रियात्मकविधिनिषेधोत्पत्तिपालनरूपच्छेदः, यथा मुने भिक्षाटनादिरूपशुद्धबाह्यक्रियायोगक्षेमादिरूपश्च्छेदः ॥ २१॥ मुनिरपि क्रियाकारीकायिकाद्यपि कुर्वीत, गुप्तश्च समितो मुनिः। कृत्ये ज्यायसि किं वाच्यमित्युक्तं समये यथा ॥ २२ ॥ यथा समये-शास्त्रे, उक्तं-कथितं कायिकादि-अपि-कायमनोवच आदिसत्कं कृत्यमपि समितिपञ्चकगुप्तित्रयसंपन्नो मुनिः कुर्वीत-कुर्यात् कर्त्तव्यमिति ज्यायसि-अत्यन्तोत्तमे, स्वतो महति वा कृत्ये-कार्ये किं वाच्यम्-किं कथनीयमर्थात्तत्तु कुर्वीतैवेति ॥ २२॥ भिन्नार्थकोत्सर्गापवादौ तथा दुष्टविधिनिषेधौ यत्र, न तच्छास्त्रं छेदशुद्धंअन्यार्थं किञ्चिदुत्सृष्टं, यत्राऽन्यार्थमपोद्यते । दुर्विधिप्रतिषेधं तद्, न शास्त्रं छेदशुद्धिमत् ॥ २३ ॥ जैनपक्षे-'अन्यार्थं किञ्चिदुत्सृष्टं' अन्यस्मै कार्याय प्रयुक्तं-उत्सर्गवाक्यं किञ्चित्, अन्यार्थ-प्रयुक्तेन वाक्येन नापोद्यते-नापवादगोचरीक्रियते। यमर्थमाश्रित्य शास्त्रेषूत्सर्गः प्रवर्तते तमेवार्थमाश्रित्याऽपवादोऽपि प्रवर्त्तते, तयो निम्नोन्नतादिव्यवहारवत्परस्परसापेक्षत्वेनैकार्थसाधन
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy