________________
प्रथम शास्त्रयोगशुद्धि-अधिकारः पुनः कषदृष्टांतघटनावर्णनम् -
सिद्धान्तेषु यथा ध्याना ध्ययनादिविधिव्रजाः । हिंसादीनां निषेधाश्च भूयांसो मोक्षगोचराः ॥ १९ ॥
१७
-
सिद्धान्तेषु - शास्त्रेषु यथा ध्यानाध्ययनादिरूपविधिसमूहाः, हिंसादीनां निषेधाः मोक्षं प्रति साधकरूपध्यानादिविधिसमुदायाः, बाधकरूपहिंसादीनां निषेधाः, अत एव कथ्यन्ते 'भूयांसो मोक्षगोचरा: ' बहव: साधकरूपविधिव्रजाः, बहवो बाधकनिषेधव्रजाः, मोक्षो गोचरो विषयो येषां विधीनां निषेधानां ते मोक्षगोचरा:- एकाधिकारा विधिनिषेधाः शुद्धा एवेति ॥ १९॥
कषशुद्धं यन्न भवति तद् दर्श्यतेअर्थकामविमिश्रं यद्, यच्च क्लृप्तकथाऽऽविलम् । आनुषङ्गिक - मोक्षार्थं, यन्न तत् कषशुद्धिमत् ॥ २० ॥
यद् शास्त्रं, अर्थेन च कामेन चार्थकामाभ्यां विमिश्रं - करम्बितं, च यत्-शास्त्रं क्लृप्ता-कल्पनान्तर कपोलकल्पनातः कल्पिता रचिता या कथा, तथा आविलं-मलिनं, यत् शास्त्रं, आनुषङ्गिकः गौण: =प्रासङ्गिक:मोक्षस्यार्थः- विषयो यस्मिन् तदानुषङ्गिक- मोक्षार्थं तत्-अर्थकामविमिश्रं - क्लृप्तकथाविलं- आनुषङ्गिकमोक्षार्थं शास्त्रं कषपरीक्षायां शुद्धं न कथ्यतेऽपितु यत्-मोक्षार्थकविधिसमुदायनिषेध-समुदायात्मकवाक्यबहुत्वावच्छिन्नं शास्त्रं कषपरीक्षायां शुद्धिमत् कथ्यते ॥ २० ॥
द्वितीया शास्त्रस्य च्छेदपरीक्षा
विधीनां च निषेधानां, योगक्षेमकरी क्रिया । वर्ण्यते यत्र सर्वत्र, तच्छास्त्रं छेद -शुद्धिमत् ॥ २१ ॥