________________
अध्यात्मोपनिषत्
चरमनयनकरी मारग जोवतारे भुल्यो सयल संसार । जेणे नयने करी मारग जोइये रे नयण ते दिव्य विचार ॥ पंथडो ॥
(आनंदघनोक्तिः स्मरणीयाऽत्र) ॥ १६॥ शास्त्रपरीक्षा कषादिभिःक्रियते - परीक्षन्ते कषच्छेद-तापैःस्वर्णं यथा जनाः । शास्त्रेऽपि वर्णिकाशुद्धिं, परीक्षन्तां तथा बुधाः ॥ १७॥
यथा जनाः-लौकिकव्यवहारे शुद्धस्वर्णनिश्चयायाऽशुद्धस्वर्णत्यागाय लोकाः सुवर्णं कषेणच्छेदेन तापेन परीक्षन्ते तथा शास्त्रे श्रुते-सिद्धान्ते सर्वस्मिन् बुधाः-परीक्षकदृष्टितोऽभ्याससम्पन्ना निष्णाताः वर्णिकाशुद्धिंसुवर्णवद् वर्णात्मकवचनवाक्यस्य शुद्धिं निर्दोषतां परीक्षन्तां-विशिष्टकषच्छेदतापैः परीक्षाविषयी-क्रियन्तामिति ॥ १७॥
प्रथमा शास्त्रस्य कषनामकपरीक्षाविधयः प्रतिषेधाश्च, भूयांसो यत्र वर्णिताः । एकाधिकारा दृश्यन्ते, कषशुद्धिं वदन्ति ताम् ॥ १८ ॥
यत्र शास्त्रे-सिद्धान्ते, विधयः-विधेयार्थोपदेशगर्भितानि विधिवाक्यानि, अकर्त्तव्यार्थोपदेशशबलितानि निषेधात्मकवाक्यानि-निषेधाश्च भूयांसो-बहवो-बहुसंख्याका वर्णिता:- वर्णनविषयीकृताः, एकाधिकाराः=विधयो निषेधाश्च एकमधिकृत्य-परस्परमविरुद्धाः-एक एवाधिकारो (एकस्मिन् वाऽधिकारे वर्तन्ते) येषां ते एकाधिकाराः कथ्यन्ते एककार्यकारिणो विधयो निषेधा एकाधिकारा उच्यन्ते यथा संयमरूपैककार्ये समितिगुप्तिरूपाष्टप्रवचनमातृणां विधिः, प्राणातिपातादिभ्यो निषेधश्च(कार्य प्रति बाधकस्य निषेधः साधकस्य विधिः) एकाधिकारा विधयो निषेधाश्च भूयांसो यत्र शास्त्रे दृश्यन्ते-प्रत्यक्षभूता भवन्ति, तां कषशुद्धिं वदन्तीति विधिप्रतिषेधवर्णनद्वारा कषपरीक्षायामुत्तीर्णशास्त्रमिति ॥ १८॥