SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ प्रथम शास्त्रयोगशुद्धि-अधिकारः वीतरागवचनरूपशास्त्रयोगनिष्ठाऽऽश्वासरूपधर्मविषयकमतान्तराणि प्रदर्श्यन्तेएनं केचित् समापत्तिं वदन्त्यन्ये ध्रुवं पदम् । प्रशान्तवाहितामन्ये, विसभागक्षयं परे ॥ १५ ॥ एनं-शास्त्रयोग-वीतरागविषयवचःपुरस्कारादिविषयमेनं, 'केचित्समा पत्तिं' पातञ्जलयोगदर्शनानुयायिनःसमापत्तिं कथयन्ति, 'अन्ये ध्रुवं पदं' महाव्रतिका ध्रुवं पदं वदन्ति, अन्ये साङ्ख्याः प्रशान्तवाहितां वदन्ति, परे बौद्धाः, विसभागक्षयं वदन्त्येवेति ॥ १५॥ योगिनः शास्त्रचक्षुषःचर्मचक्षुर्भूतः सर्वे, देवाश्चावधिचक्षुषः। सर्वतश्चक्षुषः सिद्धाः, योगिनः शास्त्रचक्षुषः॥ १६ ॥ सर्वे-मनुष्यादयः, चर्म (बाह्य) चक्षुर्बिभ्रतीति चर्मचक्षुर्भूतः, 'देवाश्चावधिचक्षुषः' अवधिज्ञानरूप चक्षुषा देवा:पश्यन्ति जगदतोऽवधिचक्षुषो देवा:कथ्यन्ते, 'सर्वतश्चक्षुषःसिद्धाः' सर्वदर्शककेवलज्ञानचक्षुषा, सिद्धाः-भवस्थाऽभवस्थकेवलिनःपश्यन्ति परन्तु शास्त्रयोगविषयप्रसङ्गे 'योगिनःशास्त्रचक्षुषः' साधवः ज्ञानादियोगशालिनो-योगिनःशास्त्ररूपदिव्यनयनेन पश्यन्ति, अद्यतनकाले शास्त्राणि विद्यन्ते, साधवःशास्त्रस्वाध्यायरूपं परमं तपःकुर्वन्ति, पुरातने तु शास्त्राणि कण्ठस्थानि अधुना तु ग्रन्थस्थानि सन्ति स्वाध्यायस्त्वद्यबहुसुलभोऽतः स्वाध्याये कदाचनोदासीनता न कर्त्तव्या शास्त्रचक्षुषा तु ज्ञानिनः पुरःस्थितानिवोर्ध्वाऽधस्तिर्यग् लोके विवर्तिनः-वर्तमानान् परिवर्त्तमानान् सर्वान् भावानवेक्षन्ते तथास्थितप्रज्ञतामात्माऽप्नोति अवन्तिसुकुमालवज्जातिस्मरणमपि प्राप्नोति,
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy