________________
१४
अध्यात्मोपनिषत्
'यस्माद् रागद्वेषोद्धतचित्तान् समनुशास्ति सद्धर्मे । सन्त्रायते च दुःखाच्छास्त्रमिति निरुच्यते सद्भिः॥१२॥
(प्रशमरतिः)॥ वीतरागवाक्यविषयकश्रद्धाऽभावो महामोहोदयःवीतरागोऽनृतं नैव, ब्रूयात्तद्धत्वभावतः । यस्तद्वाक्येष्वनाश्वासस्तन्महामोहजृम्भितम् ॥ १३ ॥
वीतराग:-सर्वज्ञो 'नैवानृतं ब्रूयात्' किं प्रकारावच्छिन्नमसत्यं न कथयेत् कुतः ? आह 'तद्धत्वभावत:'-तस्यानृतस्य हेतूनां-क्रोध-लोभभय-हास्यरागद्वेषादीनामभावतः-क्षयतोऽर्थात् कारणाभावप्रयुक्तकार्याभावन्यायेन, असत्यहेतुभूतरागादिमात्राभावजन्यासत्यभावमात्राभावः। 'यस्तद्वाक्येष्वनाश्वासः' तस्य वीतरागस्य-सर्वज्ञस्य वचनात्मकवाक्येषु, आस्थाया-विश्वासस्याभावरूपोऽनाश्वासो यः 'तन्महामोहजृम्भितम्' सोऽनाश्वासः महामोहरूपमिथ्यात्वस्य विपाकरूप-विलासोऽस्तीति ॥ १३॥
वीतरागवचः पुरस्कारे वीतराग:पुरस्कृत एवशास्त्रे पुरस्कृते तस्मा-द्वीतरागः पुरस्कृतः । पुरस्कृते पुनस्तस्मिन्, नियमात् सर्वसिद्धयः ॥ १४ ॥
वीतरागवचनरूपे शास्त्रे, पुरस्कृते-समादृते-बहुमतेऽर्थाद्-अग्रे कृत्वा मानिते सति, तस्माद् शास्त्रस्याग्रेकरणतः-बहुमानतः अत्यन्तादरणतः वीतराग:-सर्वज्ञः पुरस्कृतः-समादृतः बहुमतः, पुनश्चोऽर्थः, तस्मिन्वीतरागे पुरस्कृतेऽग्रेकृते, नियमात् एकान्ततः, सर्वाः सिद्धयो भवन्ति, 'अस्मिन्हृदये स्थिते सति हृदयस्थस्तत्त्वतो मुनीन्द्र इति। हृदयस्थिते च तस्मिन्, नियमात् सर्वार्थसिद्धयः ( हरिभद्र सू.) । 'ता तेलुक्कुद्धरणे जिनवयणे आयरं कुणह' इति (अजि.स्तवे)॥१४॥