SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ प्रथम शास्त्रयोगशुद्धि-अधिकार: १३ शृणुत तावत्, 'गुरोश्चरणारविन्दं पूज्यत्वादस्पृष्ट्वैव मारयतेति, सुभटास्तु राज्ञामाज्ञां शिरसि धारयित्वा प्रस्थिताः, गुरुपार्श्वे आगत्य दूरत एव तीरै र्विद्धो गुरुः, पश्चाच्च रुचिरं पिच्छच्छत्रमानीयात्र भिल्लराजाऽग्रे स्थिताः, राज्ञा पृष्टं 'किं गुरुचरणारविन्दमस्पृष्ट्वैवात्रच्छत्रमानीतं ! भिल्लैरुक्तं चास्माभिर्दूरत एव स्थित्वा तीरै गुरु विद्ध:, गुरुचरणौ न स्पृष्टावेवेति कीदृशी भिल्लराजस्य गुरुं प्रति भक्तिः ! भौतमते - र्हन्तु भौतमतेः तस्य पादस्पर्शस्य निषेधनमिव' जिनाज्ञानिरपेक्षस्य स्वच्छन्दमतेः शुद्धाहारादिगवेषणं न हिताय प्रत्युत जिनवचननिरपेक्षस्य यावान् व्यवहारोऽसद्व्यवहारः संसारायैव न मुक्तये प्रगल्भते इति ॥ ११॥ शास्त्रशब्दस्य व्युत्पत्तिलभ्यार्थः 4 शासनात् त्राणशक्तेश्च, बुधैः शास्त्रं निरुच्यते । वचनं वीतरागस्य तच्च नाऽन्यस्य कस्यचित् ॥ १२ ॥ स्वपरजीवविषयकहितोपदेशरूपशासनहेतोश्च स्वपरजीवरक्षणोपदेशहेतुकत्राणशक्तिद्वारा बुधैः - व्युत्पत्तिनामकशास्त्रदक्षैः (शास्धातोश्च शासनं त्राधातोश्च त्राणं शासनत्राणशक्तेश्च ) शास्त्रं निरुच्यते व्युत्पाद्यते व्युत्पत्तिविषयीक्रियते तच्च - शास्त्रं, वीतरागस्य - सर्वज्ञस्य वचनमेवार्थात् वीतरागवचनमेव, अर्थानुगमेन व्युत्पत्त्या च शास्त्रमुच्यते सर्वज्ञभिन्नस्य छद्मस्थस्य कस्यचिदपि स्वतन्त्रवचनं शास्त्रशब्देन नोच्यते ' शासनसामर्थ्येन च सत्राण - बलेनानवद्येन । युक्तं यत् तच्छास्त्रं तच्चैतत्सर्वविद्वचनम् (इतिप्रशमरतौ) निरवद्यस्वपरहितमार्गोपदेशरूपशासनसामर्थ्यद्वाराऽनवद्य-स्वपरजीवरक्षणपूर्वकबलद्वारा युक्तं यत्तच्छास्त्रं च तदेतच्छास्त्रं सर्वज्ञवचन - मेवेति । वीतरागवचनरूपशास्त्रेण र्जुनमाल्यादयोऽनेके शासिताश्च रक्षिताश्चेत्यप्यत्र स्मरणीयमेव । , प्रदेशीन्द्रभूतिशालिभद्रचण्डकौशिका
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy