________________
अध्यात्मोपनिषत् स्वात्मनिष्ठकेवलज्ञानचक्षूरहिताः कथ्यन्ते, अत एव 'हस्तस्पर्शसमं शास्त्रज्ञानं' अचक्षुषां स्पर्शनेन्द्रियग्राह्यं हस्ताभ्यां स्पर्शजन्यज्ञानं-स्पार्शनज्ञानं तत्सदृशं शास्त्रज्ञानं तेषां छद्मस्थानां व्यवहारकारकं भवति (अनुभवकारकं न भवतीति) ॥ १०॥
शास्त्राज्ञानिरपेक्षव्यवहारोऽसन्नेव भवतिशुद्धोञ्छाद्यपि शास्त्राज्ञा-निरपेक्षस्य नो हितम् । भौतहन्तु-र्यथा तस्य, पादस्पर्शनिषेधनम् ॥ ११ ॥
'शुद्धोञ्छाद्यपी' ति-निर्दोष-प्रासुकानेषणीय-भक्तपानमादिना सकलसाधोराचारो ग्रायः निर्दोषाहारविहाराचारमात्रमपि वीतरागप्रणीतशास्त्राऽऽज्ञाया अपेक्षारहितस्य साधो न हितम्-हितकारि शास्त्राज्ञासापेक्षस्य मुनेः स्वाचारादि हितमेव, आचारस्यात्मा, शास्त्राज्ञा, यदा शास्त्राज्ञा गता तदा स्वभावात्मा गत एव "वचन सापेक्ष व्यवहार साचो कह्यो, वचन निरपेक्ष व्यवहार झुठो” वीतरागवचः सापेक्षव्यवहार: सत्यस्तद्भिन्नव्यवहारोऽसत्य इत्यानन्दघनोक्तिरपि स्मरणीया 'भौतहन्तुर्यथा तस्य पादस्पर्शनिषेधनम्' अत्र भौतमते र्हन्तु दृष्टान्तः कथ्यते 'एकं महदरण्यमस्ति, तत्रारण्यका भिल्ला वसन्ति च, तेषां राजा भिल्लराजेति कथ्यते, भिल्लराजस्येष्टो. गुरुभीतमतिनामाऽऽसीत्, तस्य योगिनः पार्श्वे, नानाविधवर्णयुतमयूरपिच्छपिच्छलमेककं मनोहरं कलाकारकल्पितमिव छत्रमासीत्, भिल्लराजपट्टराज्यै बहुरुचितं जातं, राजानं एतच्छत्राऽऽनयनाय राज्ञी कथयामास, भिल्लराजस्तु तत्क्षणादेव गुरुपार्श्वमाजगाम, भो गुरुदेव ! भवदीयं रुचिरच्छत्रं राज्यै रुचितमस्ति, भवान् मां तद्यच्छतु, गुरुणा राज्ञे छत्रदानाय निषिद्धम्, भिल्लराजो भृशं क्रुद्धो जातः, राजसभायामागत्य सुभटानादिदेश, यद् ‘गच्छत यूयं गुरुपार्श्वे, गत्वा गुरुं हत ! पश्चात्तच्छत्रमत्राऽऽनयत, परन्तु एकां वार्ता