SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ११ प्रथम शास्त्रयोगशुद्धि-अधिकारः इन्द्रियैरगम्यानां-परोक्षभूतानामर्थानां रूपिणां परमाणूनामरूपिणां आत्मधर्माऽधर्माकाशादीनामर्थानां 'सद्भाव-प्रतिपत्तये' सत्तायाःअस्तित्वस्य स्वीकाराय, आप्तोक्तिरूप आगमश्चोपपत्तिः-युक्तिः, 'सम्पूर्ण दृष्टिलक्षणम्' जैन्या दृष्टे:-जैनदर्शनस्य लक्षणं संपूर्णमुच्यतेऽर्थात् आगमरूपदृष्टिलक्षणेनैकेन, द्वितीयेन उपपत्तिरूपदृष्टिलक्षणेन अतीन्द्रियपदार्थानां सत्ता प्रतिपाद्यते आगामोपपत्तिरूपसंपूर्णदृष्टिलक्षणेन द्वारा ज्ञापकमापकरूपसंपूर्णदृष्टिलक्षणमेव आगमोपपत्त्यन्यतररूपमेव नान्यतृतीयं दृष्टिलक्षणमस्ति 'आज्ञयाऽऽगमिकार्थानां यौक्तिकानां च युक्तितः-अत्र युक्तितः प्रत्यक्षानुमानादिप्रमाणद्वारा अतीन्द्रियपदार्थसिद्धिं कुर्वन् वादः 'हेतुवादः' यत्र प्रत्यक्षादिप्रमाणानामनवकाशः, केवलाप्तोक्तिरूपागमवचनद्वारा, अतीन्द्रियपदार्थसिद्धिं वदन् 'आगमवादः' यत्र यौक्तिकानां-युक्तिगम्यातीन्द्रियपदार्थानां सिद्धये हेतुवादो योज्यः। यत्रागमिकार्थानां-आगममात्रगम्यातीन्द्रियपदार्थानां सिद्धावागमवाद उपयोज्यः। ___ तत्र हेतुवादे दृष्टान्तः-जीवे चैतन्यस्य सिद्धौ युक्तिवादो नियोज्यः, आगमवादे दृष्टान्तः-निगोदशरीरेऽनन्तजीवानां सिद्धावागमवादो नियोज्य: इदमत्र हृदयम् यत्पदार्थस्य वा यत्पदार्थांशस्य सिद्धिर्येन वादेन जायते तेन वादेन स पदार्थस्तस्यांऽशोऽपि साध्यः, यो यत्रोचितस्तत्र स वाद उपयोज्योऽन्यथाऽनुचितयोजने मिथ्यात्वादिमहादोषापत्तिरिति ॥ ९॥ हस्तस्पर्शसमं ज्ञानं शास्त्रज्ञानं तद्व्यवहारकृत्अन्तरा केवल-ज्ञानं, छद्मस्थाः खल्वचक्षुषः । हस्तस्पर्शसमं शास्त्र-ज्ञानं तद्व्यवहारकृत् ॥ १०॥ सर्वद्रव्यपर्यायविषयकं निरावरणं केवलज्ञानमन्तरा-विना, खलु निश्चये, घनघातिचतुष्टयकर्मरूपे 'छद्मनि तिष्ठन्ती'ति छद्मस्था:-असर्वज्ञाः
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy