________________
१०
अध्यात्मोपनिषत्
चास्ति विशेषहेतुर्घटसाधर्म्यात् कृतकत्वादनित्यः शब्दो न पुनस्तद्वैधर्म्या - न्निरवयवत्वान्नित्य इति। उत्कर्षापकर्षाभ्यां प्रत्यवस्थानमुत्कर्षापकर्षजाती भवतः। तत्रैव प्रयोगे दृष्टांतधर्मं कञ्चित् साधर्म्यधर्मिण्यापादयन्नुत्कर्षसमां जातिं प्रयुक्ते । यदि घटवत्कृतकत्वादनित्यः शब्दो घटवदेव मूर्तोऽपि भवतु । न चेन्मूर्ती घटवदनित्योऽपि माऽभूदिति शब्दे धर्मान्तरोत्कर्षमापादयति । अपकर्षस्तु घटः कृतकः सन् अश्रावणो दृष्टः । एवं शब्दोऽप्यस्तु । नो चेद् घटवदनित्योऽपि माऽभूदिति शब्दे श्रावणत्वधर्ममपकर्षतीति, इत्येताश्चतस्रो दिङ्मात्रदर्शनार्थं जातय उक्ताः । एवं शेषा अपि विंशतिरक्षपादशास्त्रादवसेयाः ॥ ७ ॥
- हेतुवादमात्रेणातीन्द्रियार्थबोधाऽसिद्धिःज्ञायेरन् हेतुवादेन, पदार्था यद्यतीन्द्रियाः । कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्चयः ॥ ८ ॥
'ज्ञायेरन् हेतुवादेना' - नुमानवादेन पदार्था यद्यतीन्द्रियाः सर्वज्ञादय:, कालेनैतावता प्राज्ञैस्तार्किकैः कृतः स्यात्तेषु निश्चयोऽवगम इति 'निश्चयो - ऽतीन्द्रियार्थस्य- सर्वज्ञादेर्योगिज्ञानादृते न च' न चानुमानविषयो न च युक्तिगोचर एषोऽर्थः सर्वज्ञविशेषलक्षणस्तत्त्वतो मतः परमार्थेन दृष्टः, न चातोऽनुमानान्निश्चयः सम्यगन्यत्राऽपि सामान्यार्थे, आह धीधनः स भर्तृहरिः ‘यत्नेनाऽनुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते' 'यत्नेनाऽनुमितोऽप्यर्थोऽन्वयाद्यनुसारेण कुशलैरनुमातृभिरन्वया-दिज्ञैरभियुक्ततरैरन्यैरन्वयादिज्ञैरेव, अन्यथैवोपपाद्यतेऽतथासिद्धयादिप्रकारेणेति ॥ ८॥
आगमोपपत्तिभ्यामतीन्द्रियार्थबोधासिद्धिः
आगमश्चोपपत्तिश्च, सम्पूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ॥ ९ ॥
?