________________
प्रथम शास्त्रयोगशुद्धि-अधिकारः
जातिप्राया दूषणाभासप्रायाः कुतर्कस्वरूपाश्च युक्तय एताश्च कुतर्कमूर्तयो युक्तयः 'अनर्थायैव' बलवदनिष्टानुबन्धित्वेन दुर्गतिनरकादिप्रत्यपायरूपानर्थायैव जायन्ते न कदाचिदर्थाय-फलाय जायन्ते यतः प्रतीतिजन्यफलस्य बाधः, एतदेवाह 'हस्ती हन्तीति वचने' मेण्ठेन किमिवेत्याह 'प्राप्ताप्राप्तविकल्पवदिति। कश्चिन्नैयायिकश्च्छात्रः कुतश्चिदागच्छन् अवशीभूतमत्तहस्त्यारूढेन केनचिदुक्तं, 'भोभोत्वरितमपसर हस्ती हन्ति' इति च । तथा परिणतन्यायशास्त्र आह-रे रे बठर ! किमेवं युक्तिबाह्य प्रलपसि। तथाहि । किमयं प्राप्तं हन्ति किं वाऽप्राप्तमिति । आद्यपक्षे भवत एव व्यापत्तिप्रसङ्गः, प्राप्तिभावात्, एवं यावदाह तावद्धस्तिना गृहीतः स कथमपि मेण्ठेन मोचित इति । जातिप्रायता सर्वत्र भिन्नार्थग्रहणस्वभाव-संवेदनवेदने तद्गताकारविकल्पनस्यैवं प्रायत्वादिति । __'जातिप्रायाश्च युक्तयः' =सम्यग् हेतौ हेत्वाभासे वा वादिना प्रयुक्ते झटिति तद्दोषतत्त्वाऽप्रतिभासे हेतुबिम्बनप्रायं किमपि प्रत्यवस्थानं जातिर्दूषणाभास इत्यर्थः। सा च चतुर्विंशतिभेदा, साधादिप्रत्यवस्थानभेदेन, यथा 'साधर्म्यवैधर्योत्कर्षाऽपकर्षवर्ण्यविकल्पसाध्यप्राप्त्य-प्राप्तिसङ्गप्रतिदृष्टान्ताऽनुत्पत्तिसंशय प्रकरणाऽहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः'। तत्र साधर्म्यण प्रत्यवस्थानं साधर्म्यसमा जातिर्भवति, अनित्यः शब्दःकृतकत्वाद्घटवदिति, प्रयोगे कृते साधर्म्यप्रयोगेणैव प्रत्यवस्थानम्। नित्यः शब्दो निरवयवत्वादाकाशवत् । न चास्ति विशेषहेतु घटसाधात्कृतकत्वादनित्यः शब्दो न पुनराकाशसाधानिरवयवत्वान्नित्य इति ।
वैधर्येण प्रत्यवस्थानं वैधर्म्यसमा जातिर्भवति अनित्य:शब्दःकृतकत्वाद् घटवदित्यत्रैव प्रयोगे स एव प्रतिहेतु वैधhण प्रयुज्यते। नित्य:शब्दो निरवयवत्वात्, अनित्यं हि सावयवं दृष्टं घटवदिति । न