________________
अध्यात्मोपनिषत् सम्मुखोऽतो नयकृतभ्रमरहित ‘एवाध्यात्मभाजनम्' अध्यात्मार्थस्याधारो भवतीति ॥ ५ ॥
-सुतर्क सुतर्कत्वेन, कुतर्क, च कृतर्कत्वेन ज्ञातुं समर्थो मध्यस्थदृष्टिं प्राप्नोतिमनोवत्सो युक्तिगवीं, मध्यस्थस्याऽनुधावति । तामाकर्षति पुच्छेन तुच्छाग्रहमन:-कपिः ॥ ६ ॥
मध्यस्थपुरुषस्य मनः-भावमनः, वत्स-स्थानीयं, (वदति मातरं दृष्ट्वेति वत्सः) युक्तिस्थानीया गौः, गामनुधावति वत्सः, तुच्छ आग्रहो यस्य, तस्य तुच्छाग्रहस्य पुरूषस्य मनः, कपिस्थानीयं तां-युक्तिगवीं, तस्याः पुच्छं गृहीत्वाऽकर्षति मध्यस्थपुरूषमनोवत्सस्य युक्तिगवीं प्रत्याकर्षणं भवति, तुच्छाग्रही युक्तिगवीं स्वपक्षस्य सिद्धान्तं प्रत्याकर्षति तथाचोक्तं 'आग्रही बत निनीषति युक्तिं तत्र यत्र मतिरस्य निविष्टा, पक्षपातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशम् 'यथार्थवस्तुस्वरूपबोधनाय युक्तिरपेक्षितव्या, अन्यथा मिथ्याभ्रमणासु पतनप्रसङ्गः स्यात् यथा शिवभूतिः, रथवीरनगरे आचार्यश्रीआर्यकृष्णस्य शिष्य:शिवभूतिः, "जिनकल्प' रूपशास्त्रीयविवेचनं स्वमतिं प्रति नीतवान्, गुरुदेवेन नानाविधा युक्तयो दत्ता या यथार्था आसन् परन्तु शिवभूतिमनोवानरेण युक्तिगव्या:पक्षपातपुच्छं गृहीत्वा स्वमतिं प्रति क्रष्टुं प्रयत्नःकृतः, वस्त्रादि त्यक्त्वा दिगम्बरः स सञ्जातः, कः कुतर्कः ? कः सुतर्कः ? तमपि सम्यग्विधिना परीक्ष्य परिहारस्वीकारौ तयोः कर्त्तव्यौ इति ॥ ६॥
जातिप्राया युक्तयोऽनायैव भवन्तिअनर्थायैव नार्थाय, जातिप्रायाश्च युक्तयः । हस्ती हन्तीति वचने, प्राप्ताऽप्राप्तविकल्पवत् ॥ ७ ॥