SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ प्रथम शास्त्रयोगशुद्धि-अधिकारः व्यवहारः, लोकव्यवहारानुकूलतया स्पष्टतमः, विशेषग्राहकः, व्यवहारनयेन रूढिप्रधानतया अध्यात्मं नाम किमिति प्रश्ने, आत्मैवेति प्रत्युत्तरं कथ्यते, =स्वदेशकालयोरेव सत्ताविश्रामाद् यद्वर्त्तमानकालीनं वस्तु यच्च स्वस्याऽऽत्मीयं रूपं तदेतदुभयमृजुसूत्राभिमतं वर्त्तते, वर्तमानकालवर्तिपर्यायप्रधानत्वं तत्र संकेतार्थक्रियादिसम्भवात्, ऋजुसूत्रनयेन वर्तमानकालीनभावपर्यायप्रधानतया 'अध्यात्म' नाम किमिति प्रश्ने 'आत्मगतवर्तमानकालीनभावपर्यायरूपमैत्र्यादिवासितं चित्तं चैतन्यमिति कथ्यते अर्थाद् व्यवहारर्जुसूत्रयोः यथायथं (यथावद्यथाऽत्र) यथास्थितो द्वितीयोऽर्थ:कोविदै ज्ञेयः।। इदमत्रहृदयम्-पञ्चाचाररूपक्रियेत्यध्यात्मशब्दस्यैकोऽर्थो, मैत्र्यादिवासितचित्तपर्यायरूपभावपरिणाम इत्यध्यात्मशब्दस्य द्वितीयोऽर्थः, नयभेदेन क्रिया च भावश्चेत्यर्थद्वयं वर्त्तते ॥ ४ ॥ नयभेदेनार्थद्वये जाते किं प्रथमोऽर्थः सत्योऽथवा द्वितीयोऽर्थः सत्य ? इत्येतद्धमविनाशाय कथ्यतेगलन्नयकृतभ्रान्ति-र्यः स्याद्विश्रान्तिसम्मुखः । स्याद्वादविशदालोकः, स एवाऽध्यात्मभाजनम् ॥ ५ ॥ 'यः स्याद्वादविशदालोकः' जैनप्रवचनोक्त-सर्वनयसमन्वितानेकान्तेन विशदः-विसंवादित्वरहितत्वेन निर्मलः पूर्णज्ञानप्रकाशो यस्य स स्याद्वादविशदालोकः, 'विश्रान्तिसम्मुखः' =अध्यात्मशब्दस्य भावक्रियारूपार्थद्वयसंयोग-समन्वयरूपविश्रान्तिसम्मुखोऽभिमुखः सन्, 'गलन्नय‘कृतभ्रान्तिः' =गलन्ती - नश्यन्ती नयभेदेन कृता याऽर्थद्वयविषयिणी भ्रान्ति भ्रमो यस्य स 'गलन्नयकृतभ्रान्तिः' नयकृतभ्रान्तिशून्यः, स एव-स्याद्वादविशदप्रकाशवानतो ज्ञानक्रियाऽऽत्मकसंयोगरूपविश्रान्ति
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy