________________
६
अध्यात्मोपनिषत् मात्मेति, अनादि-कालीनसंज्ञारूपवासनाशुद्धिविशिष्टं 'निर्मलं' 'बाह्यव्यवहारोपबृंहितं' लोकप्रसिद्धशुद्धव्यवहार-सत्क्रियाद्वारा उत्तेजितं-वर्द्धितमिति, मैत्र्यादिवासितमर्थाद् भावनादिविशुद्धिप्रधानं चित्तमध्यात्ममिति एकत आत्मस्वामिकक्रियाशुद्धिप्रधानमन्यत आत्मस्वामिकभावनाशुद्धिप्रधानं चित्तमध्यात्ममुच्यते तत्र नयभेदो वक्ष्यमाणः प्रमाणभूत इति ॥ ३॥
-को नयः कमर्थं मन्यते ? इत्यर्थपरिच्छेदविभाजनम्एवम्भूतनये ज्ञेयः, प्रथमोऽर्थोऽत्र कोविदैः । यथायथं द्वितीयोऽर्थो, व्यवहारर्जु सूत्रयोः ॥ ४ ॥
आत्माऽधिकारिकज्ञानाद्याचारपञ्चकरूपः प्रथमोऽर्थोऽध्यात्मशब्दस्य कोविदैः-निपुणैः ‘एवम्भूतनयविवक्षायां सत्यां ज्ञेयः 'अत्राऽध्यात्मोपनिषद्ग्रन्थेऽथवा यौगिकशब्दार्थप्रसङ्गे ज्ञेयः। एवम्भूतनयस्तु यस्मिन्नर्थे शब्दो व्युत्पाद्यते स व्युत्पत्तिनिमित्तमर्थो यदैव प्रवर्तते तदैव तं शब्दं प्रवर्त्तमानमभिप्रैति, स्वस्वप्रवृत्तिनिमित्तक्रियाविशिष्टार्थाऽभिधायित्वाऽभ्युपगम एवम्भूतनयः । जलाहरणादिक्रियाविशिष्टमेव घटादिकमर्थ घटादिशब्दो वक्तीत्येवंरूपोऽभिप्राय एवम्भूतनयः। या क्रिया विशिष्टशब्देनोच्यते तामेव क्रियां कुर्वद्वस्तु एवम्भूतशब्देनोच्यते तत्प्रतिपादको नयोऽप्युपचारादेवम्भूतः अत्राऽवयवशक्तियौगिकशब्दोऽत्र मन्यते, स्वामिनाऽऽत्मनाऽऽत्महितमुद्दिश्य ज्ञानाद्याचारात्मकक्रियाः क्रियमाणा यदैव सन्ति तदैवैवम्भूतनयेन तदध्यात्म कथ्यते नाऽन्यदित्यर्थः।
'यथायथं द्वितीयोऽर्थो, व्यवहारर्जुसूत्रयोः' व्यवहारश्च ऋजुसूत्रश्च व्यवहारर्जुसूत्रौ तयोः 'व्यवहारर्जुसूत्रयोः, व्यवहारनयस्तु निखिललोकाबाधितं प्रमाणप्रसिद्धं कियत्कालभाविस्थूलतामाबिभ्राणमुदकाद्याहरणाद्यर्थक्रियानिर्वर्तनक्षम वस्तुरूपं पारमार्थिकं वक्ति, विनिश्चितरूढार्थप्रापको