SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ प्रथम शास्त्रयोगशुद्धि-अधिकारः किञ्चिदत्र रमणीयं स्मरणीयं स्मर्यते तथाहि-स्वात्म-स्वरूपप्राप्त्यर्थप्रधाना, यत्प्रकारावच्छिन्ना ज्ञान ध्यानयोगाद्यभ्यासात्मिका क्रिया अर्थात् स्वस्वरूपज्ञानादिगुणराशिरूपसाध्यसाधिका क्रिया 'तदध्यात्म' कथ्यते परन्तु यजातीयक्रियया चतुर्गतिरूपः संसारः साध्यते सा 'नाध्यात्म' यासु सर्वक्रियासु स्वात्मा, मुख्याधिकारित्वे प्रयुज्यते या क्रिया स्वात्मगुण-स्वरूप-लक्ष्यसिद्धये साध्यते सा 'भावाध्यात्म' कथ्यतेऽतः तत्रैव परमा प्रीतिः प्रयोज्या, भावाध्यात्म साधय साधयेत्युपदेशः, सर्वविकल्प-जालान् परित्यज्यैकशुद्धात्मतत्त्वमुपादेयमिति शब्दाध्यात्मार्थः, तन्निशम्य सत्य आत्मेति ग्राह्यम्, आत्मभिन्नं सर्वं त्याज्यमिति बुद्धौ प्रतिष्ठा कार्या मूलभूतवस्त्वात्मतत्त्वयथार्थताविचारकोऽध्यात्मशब्दार्थसम्पन्नो महात्मा कथ्यते, अतो वस्तुगत्या वस्तुप्रकाशकत्वमध्यात्मवादस्य लक्षणम् इति ॥ २ ॥ रूढिगम्याध्यात्मशब्दार्थस्य प्ररूपणम्रूढ्यर्थनिपुणास्त्वाहु- श्चित्तं मैत्र्यादिवासितम् । अध्यात्म निर्मलं बाह्य-व्यवहारोपबृंहितम् ॥ ३ ॥ 'रूढ्यर्थनिपुणास्त्वाहुः'= व्युत्पत्तिरहितत्वप्रकृति-प्रत्ययविभागपूर्वकान्वर्थार्थहेतुरहितत्व-लोकव्यवहारप्रसिद्धिरूपरूढिविशिष्टा रूढाः शब्दा व्युत्पत्तिरहिताः 'नह्यत्र प्रकृतिप्रत्ययविभागेन व्युत्पत्तिरस्ति यद्यपि' 'नाम च धातुजमिति शाकटायन-मतेन रूढा अपि व्युत्पत्तिभाजः, तथापि वर्णानुपूर्वीविज्ञानमात्रप्रयोजना तेषां व्युत्पत्तिः, न पुनरन्वर्थार्थप्रवृत्तौ कारणमिति रूढा अव्युत्पन्ना एव रूढशब्दजनकरूढिशक्तिगम्यार्थप्रज्ञापने प्रसिद्धनिपुणास्तु कथयन्ति चित्तं मैत्र्यादिवासितं अध्यात्म निर्मलं' 'बाह्यव्यवहारोपबृंहितम्'-मैत्री-प्रमोद-कारुण्य-माध्यस्थ्यादिभावनाभिर्वासितं-भावितं-परिष्कृतं संस्कृतमितियावत् 'चित्तं-चैतन्यमन्त:करण
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy