________________
अध्यात्मोपनिषत्
गर्भितार्थानुरूपाध्यात्मोपनिषत्संज्ञावान्, उपनिषदो व्युत्पत्तिः = उप-समीपे ब्रह्मणो निषीदन्त्यनया उपनिषद् सार्थसरसवाक्य - सन्दर्भरूपो ग्रन्थो - ऽस्माभिर्मया 'अविशेषणे द्वौ चाऽस्मदः ' २।२।१२६ सि.है." अस्मदो द्वावेकश्चार्थो वा बहुवद् भवति 'अविशेषणे' न चेत्तस्य विशेषणं प्रयुज्यते । आवां ब्रूवः । अहं ब्रवीमि । वयं ब्रूमः । अविशेषण इति किं ? आवां गाज्य ब्रूवः । अहं पण्डितो ब्रवीमि । अहं चैत्रो ब्रवीमि । इति व्याकरणसूत्रेणाऽस्माभिर्मयेति विधीयते - न्यायविशारदन्यायाचार्यमहामहोपाध्यायश्रीमद्यशोविजयगणिवरेण, वाचकानां पुरतो विशेषेण रचनया समर्प्यमाणोऽस्तीति ॥ १॥
४
अध्यात्मशब्दस्य व्युत्पत्तिलभ्यार्थस्य निरूपणम्आत्मानमधिकृत्य स्याद्, यः पञ्चाचारचारिमा । शब्दयोगार्थनिपुणास्तदध्यात्मं प्रचक्षते ॥ २ ॥
'आत्मानमधिकृत्येति'–मोहाधिकारशून्यताप्रयुक्ताऽऽत्माधिकारंआत्मगुणेषु प्रकृष्टारोहणमुद्दिश्य, 'यः पञ्चाचारचारिमा स्यात्'=पञ्च ये आचाराः - ज्ञानदर्शनचारित्रतपोवीर्याख्याः क्रियाविशेषा स्तेषां चारिमासुन्दरतायोगो यः स्यात् - आत्मनि ज्ञानाचारादिपञ्चकनिरतिचारतारूपसुन्दरतायोगः स्यात् 'तदध्यात्मं शब्दयोगार्थ - निपुणाः प्रचक्षते ' = शब्दस्य योग:- प्रकृतिप्रत्यय-विभागेन व्युत्पत्तिरूपः, अथवा 'योगोऽन्वयः स तु गुणक्रियासम्बन्ध-सम्भवः' शब्दानां परस्परमर्थानुगमनमन्वयः स योगः, गुणात्-क्रियातः-सम्बन्धाच्च भवति यथा गुणो नीलपीतादिः, क्रिया करोत्यादिका, स्वस्वामित्वादिरूपः सम्बन्धः, तेभ्यो संभवो यस्य स योगः । तथाऽन्वर्थार्थप्रवृतौ कारणं योगः, तज्जन्यो योऽर्थस्तस्य कथने निपुणाः- कुशलास्त-दध्यात्मं प्रचक्षते - कथयन्तीति, आत्मगुणविकासकधार्मिक-क्रियामात्रध्यात्म-मिति ।