________________
प्रथम शास्त्रयोगशुद्धि-अधिकारः
'ऐन्द्रवृन्दनत' मित्यनेन 'नमोत्थुण' मित्यादिस्तोत्रप्रबन्धेन देवधुरन्धरसुन्दरपुरन्दरैः पूजापरैश्चतुष्षष्ट्या सर्वपुरन्दरपुङ्गवैर्भक्तिभरनिर्भरेण हृदयेन नतं-नमनविषयीकृतम्, अर्थात् पूजातिशयोऽभिव्यक्तो भवतीति, अत्राद्यं 'ऐं' इति बीजपदं भारत्या आवेद्यते तथा स्वकीया ग्रन्था यावन्तस्तत्र प्रथमं पदं स्वोपज्ञग्रन्थसूचकमिति यथा ग्रन्थान्ते पूज्य श्री हरिभद्रसूरीश्वराणां विरहपदं च जयश्रीपदं श्री मुनिसुन्दरसूरीश्वराणां ग्रन्थे दृश्यते तथाऽत्रापि ज्ञेयमिति ।
अथ विशेषणानां कार्यकारणभावो विज्ञाप्यते
(१) स्वयम्भुवमिति - तीर्थङ्करात्मनां परोपदेशं विना तथाभव्यत्वादिसामग्रीपरिपाकसहकृतवरबोधित आरभ्य सकलयावत्स्वगुणाऽऽविर्भावभवनात्-स्वयं भवनादर्थाद् वीतरागत्वनिष्ठतादात्म्यसम्बन्धाऽवच्छिन्नकार्यताऽवच्छिन्नकार्यतानिरुपितस्वयंभूतिनिष्ठतादात्म्यसम्बन्धाऽवच्छिन्नकारणताऽवच्छिन्नकारणत्वं स्वयंभूत्वे वर्त्तते, वीतरागत्वस्वयंभूत्वयोः कार्यकारणभाव:
(२) 'ऐन्द्रवृन्दनत' मिति वीतरागत्वभावार्हत्त्वयोः कार्यकारणभावो ज्ञेयोऽर्थाद्वीतरागत्वहेतुकसकलेन्द्रवृन्दनतिविशिष्ट भावाऽर्हत्त्वमस्ति,
तथा च तीर्थकराऽऽत्मसु विना स्वयंभूत्वं न वीतरागत्वं, स्वयंभूत्वाऽविनाभाविवीतरागत्वं वर्त्तते, विना वीतरागत्वं न सर्वेन्द्रवृन्दनताऽर्हत्त्वं वर्त्तते वीतरागत्वाऽविनाभाविसकलेन्द्रवृन्दनतिविशिष्टभावार्हत्त्वमिति त्रिभिर्विशेषणैः कार्यकारणभावप्रदर्शनद्वारा वैशिष्ट्यं जिनेश्वरेष्वभिव्यक्तं भवतीति ।
एवमैन्द्रवृन्दनतं-वीतरागं-स्वयम्भुवं, ऋषभादिकमर्हन्तं नत्वा-विनयतो मनसा वचसा वपुषा नमस्कृत्याऽर्थाद् भावाऽर्हन्नमस्काररूपं भावमङ्गलं विधाय ‘क्त्वाप्रत्ययस्योत्तरक्रियासापेक्षत्वात्, कथ्यते अध्यात्मोपनिषन्नामा ग्रंथोऽस्माभि र्विधीयते' अध्यात्मविषयक-निगूढाऽन्तिमरहस्यरूपोपनिषद्