SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ (शास्त्रयोगशुद्धि-अधिकारः) अर्हन्नमस्काररूपमङ्गलाचरणेन सह ग्रन्थनाम्नैव विषयादिनिदर्शनम्ऐन्द्रवृन्दनतं नत्वा, वीतरागं स्वयम्भुवम् । अध्यात्मोपनिषन्नामा, ग्रन्थोऽस्माभि विधीयते ॥ १ ॥ टी० सामान्यार्थ:= 'ऐन्द्रवृन्दनत' मिति, इन्द्रस्य सत्कं, वृन्दं, तेन नतम्, 'वीतराग' मिति, वीतो रागोऽस्मादिति वीतरागस्तम्, 'स्वयम्भुव' मिति, स्वयमात्मना तथाभव्यत्वादिसामग्री परिपाकात् न तु परोपदेशाद् भवतीति ‘स्वयम्भू' स्तं स्वयम्भुवम्, वृषभादिकमर्हन्तमिति वाक्यशेषम्; नत्वा-नमस्कृत्येति, अध्यात्मोपनिषदिति नाम यस्य सोऽध्यात्मोपनिषन्नामा ग्रन्थोऽस्माभिर्विधीयते-क्रियते इति । - विशेषार्थः- 'ऋषभादिकमर्हन्तमिति विशेष्यं वाक्यशेषमथवा' चिह्नर्व्यक्तैर्भवेद् व्यक्ते-र्जातिशब्दोऽपि वाचकः । तथाह्यगस्तिपूता दिग् दक्षिणाऽऽशा निगद्यते ॥ अ.चि. निसन्देहैविशेषणै र्जात्यभिधायकोऽपि शब्दो व्यक्तेर्वाचको भवेद्-व्यक्ते र्नामतां यातीत्यर्थः । ___ अत्र नि:संदेहै विशेषणै वीतराग-भिन्न-विशेषणद्वयेन वीतरागरूपजातिशब्दोऽपि ऋषभादिव्यक्तेर्वाचको भवेदिति 'वीतरागमि' ति=अत्र क्षीणमोहत्वेन सयोगिकेवलित्वेन चापायाऽपगमातिशयश्च ज्ञानातिशयश्च सूचितौ । 'स्वयम्भुव' मिति, अत्र स्वयंसम्बुद्धमित्यनान्तरम्, तथा च स्वयंसम्बोधिजन्यतीर्थंकरत्वादि-लब्धिपूर्वक-देशनाऽतिशयेन वचनातिशयः प्रकटितः ।
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy