________________
श्री शंखेश्वर पार्श्वनाथाय नमः
ऐं नमः सूरिआत्मकमल-लब्धि-भुवनतिलक गुरुभ्यो नमः
न्यायाचार्यमहामहोपाध्याय श्रीमद्यशोविजयजी विरचिता अध्यात्मोपनिषत्
विजयभद्रंकरसूरिकृत-भुवनतिलकाख्यया संस्कृतटीकया समलंकृता
मङ्गलाचरणम् स्मृत्वा शान्तिं जगन्नाथं, शान्तिदं छाणिमण्डनम् । नत्वा च वर्धमानेशं, जिनेशं शासनेश्वरम् ॥ १ ॥ गौतमादीन् गणेशांश्च, प्रणम्य सूरिपुङ्गवान् । हेमहरिप्रमुख्यांश्च, प्रसिद्धाऽध्यात्मयोगिनः ॥ २ ॥ न्यायाचार्यादिना सिद्धान्, यशोवाचकशेखरान् । श्रुतकेवलिसाम्याढ्यान्, स्मृत्वा वादिजयाञ्चितान् ॥ ३ ॥ श्रीलब्धिसूरिपट्टेशान्, भुवनतिलकाभिधान् । सूरीन् स्मृत्वा सदाऽध्यात्मो-पनिषदः समर्मणः ॥ ४ ॥ भुवनतिलकाऽऽख्याऽऽढ्या, गुरुस्मरणकारिका । मया प्रतन्यते टीका, भद्रंकरेण सूरिणा ॥ ५ ॥