SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ३० अध्यात्मोपनिषत् यथाऽव्याप्यवृत्तिधर्माणां संयोगादिविशेषगुणादिघटत्वद्रव्यत्वनीलभेदाभेदादिरूपाऽव्याप्यवृत्तिधर्माणां निर्णीतिः, अवच्छेदक आश्रयो यस्यां साऽवच्छेदकाश्रया यथा अग्रस्थानरूपावच्छेदकं प्रतीत्य वृक्षे कपिसंयोगाभावो वर्त्तते शाखास्थानरूपावच्छेदकमपेक्ष्य कपिसंयोगो वर्त्तते । 'एकत्र वृत्तौ हि विरोधभाजो:, येषामवच्छेदकभेदयाञ्चा । द्रव्यत्वपर्यायतयो विभेदं, विजानतां सा कथमस्तु वस्तु ॥ नीलभेदो घटत्वावच्छेदेन नीलाभेदस्तु नीलवद् भिन्नभेदाऽवच्छेदेनेति भेदाभेदवादे । स्याद्वादे तु पूर्वोत्तराकार ( पर्याय) परिहारस्वीकार (द्रव्यत्वेन) स्थितिलक्षणपरिणामेन भावानामर्थक्रियोपपत्तिरविरुद्धा । न चैकत्र वस्तुनि परस्परविरुद्धधर्माध्यासाऽयोगादसन् स्याद्वाद इति वाच्यम् । एकान्तनित्यानित्यपक्षविलक्षणस्य पक्षान्तरस्या (कथंचिन्नित्यानित्यरूपजात्यन्तरस्य)ङ्गीक्रियमाणत्वात्, तथैव च सर्वैरनुभवात् ! तथा च पठन्ति ! ' भागे सिंहो नरो भागे, योऽर्थो भागद्वयाऽऽत्मकः'। तमभागं विभागेन नरसिंहं प्रचक्षते इति प्रकृते हि न्यायमते यथाऽवाप्यवृत्तिधर्माणां, अवच्छेदकरूपाश्रयद्वारा निर्णीतिः- निर्णयोऽस्ति, तथा च ततोऽव्याप्यवृत्तिधर्माणां, ततः - अवच्छेदकरूपाश्रयतः परावृत्तिःपरिवर्त्तनमपि (श्रेष्ठानेकान्तपरावृत्तिः ) न भवति, तद्वस्तु, तथा-तेन प्रकारेणाऽत्रापेक्षाभेदतो नानाविरुद्धधर्मावच्छिन्नत्वविशिष्टस्याद्वादे किं न भवद्भिरीक्ष्यते ? सम्यगीक्ष्यतां तुलनाक्रियतां यथार्थरीत्या अनेकान्तवादतः सर्वत्र निर्णय एवेति ॥ ३९-४०॥ अभिप्रेतधर्माश्रयेणैव नयेषु निर्णयो व्यवहारी आनैगमान्त्यभेदं तत्, परावृत्तावपि स्फुटम् । अभिप्रेताऽऽश्रयेणैव, निर्णयो व्यवहारकः ॥४१॥
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy