________________
११६
अध्यात्मोपनिषत् 'प्रारब्धादृष्टतः किन्तु ज्ञेया विद्वत्तनुस्थितिः' परन्तु विदुषां-ज्ञानिनां तनुस्थिति:शरीरस्थितिः, प्रारब्धरूपादृष्ट-कर्मतो भवति 'तत्तच्छरीरभोगजनकं यत्कर्म-तत्प्रारब्धं' तत्त्वज्ञानिनः शरीराऽवस्थानं सुखदुखादिः, प्रारब्ध-(निकाचित-निरुपक्रमेति जैनपरिभाषायां) कर्मयोगतो भवति हे वादिन् ! त्वसिद्धान्तपरिभाषितप्रारब्धादृष्टतो-ज्ञानिनः शरीरस्थिति र्भवति न तु शिष्याद्यदृष्टवशादिति भृशं चिन्त्यमिति यस्य यत्कर्म तस्यैव तद्वशात्फलं नाऽन्यादृष्टवशादन्यथा जगत्यव्यवस्था भवेदित्यपि चिन्त्यमिति ॥ ३१॥
ज्ञानेन नाश्यं किं कर्म ? ज्ञानाऽनाश्यं किं कर्म ?तत्प्रारब्धेतरादृष्टं, ज्ञाननाश्यं यदीष्यते। लाघवेन विजातीयं, तनाश्यं तत् प्रकल्प्यताम्॥ ३२॥
ज्ञानिनो यदि प्रारब्धात्-ज्ञानाऽनाश्यकर्मत-इतरद्-भिन्नमदृष्टं कर्म तज्ज्ञाननाश्यं-ज्ञानेन ध्वंसविषयमिष्यते-मनविषयीक्रियते, तत्-तस्मात्कारणात् लाघवप्रयुक्तं ज्ञाननाश्यजातिविशिष्टकर्म-भिन्नं प्रारब्धादिकं विजातीयं तक्रियानाश्य-ध्वंसविषयं प्रकल्प्यतां-प्रकल्पनाविषयीक्रियतामर्थाद् ज्ञाननाश्य-भिन्नविजातीयं प्रारब्धादिकं शेषं कर्म, क्रियानाश्यमेवेति, मतविषयीक्रियतामिति भावः॥ ३२॥
ज्ञानिनो ज्ञानाऽनाश्य-क्रियानाश्यकर्म क्षयार्थं क्रियाइत्थं च ज्ञानिनो ज्ञान-नाश्यकर्मक्षये सति । क्रियैकनाश्यकौघ-क्षयार्थं साऽपि युज्यते॥ ३३॥
इत्थं च-किञ्चानेन प्रकारेण ज्ञानिनो ज्ञानेन नाश्यकर्मणो-ध्वंसयोग्यादृष्टस्य क्षये सति ज्ञानाऽनाश्य-मात्रक्रिया-प्रायश्चित-भोगादि-मात्रक्रियानाश्य-कौंध-सञ्चिताविहितादि-कर्मसमूहस्य क्षयार्थ-क्षयमुद्दिश्य साऽपि