________________
११५
तृतीय क्रियायोगाशद्धिनामकऽधिकार स्थितिरिष्टा-सिद्धान्तत्वेनाभिमता स नाशहेत्वन्तराभावश्च न दुर्वच:-अपि तु सूपपाद एवेति ॥ २८॥
कथं न गुरुश्चिरं जीव्येत ? इत्यापादनंअन्यादृष्टस्य तत्पात-प्रतिबन्धकतां नयेत्। म्रियमाणोऽपि जीव्येत, शिष्यादृष्टवशाद् गुरु:?॥ २९॥
यदि 'अन्यादृष्टस्य' शिष्याद्यन्यगतमदृष्टं गुर्वादि-शरीर-पतनस्य प्रतिबन्धकं-बाधकं भवेत् तदा म्रियमाणोऽपि-मृत्युं गच्छन्नपि गुरुः शिष्याणामदृष्टवशाद् जीव्येत-जीवनं पुनःप्राप्नुयादेवेति? ॥ २९ ॥
स्वभावतो निरुपादानज्ञानिशरीरस्थितिरिति मतं न सुन्दरम्स्वभावान्निरुपादानं यदि विद्वत्तनु-स्थितिः। तथापि काल-नियमे तत्र युक्ति न विद्यते॥ ३०॥ 'स्वभावादि 'ति-यदि निसर्गतो निरुपादानं यथा स्यात्तथा उपादानरहिता, विदुषां-ज्ञानिनां 'तनुस्थितिः' शरीरेऽवस्थानमिति मतं स्थाप्यते तथापि तत्र कालनियमे-कियत्कालं शरीरे स्थास्यतीतिचिराचिरकालस्य नियमो-नैयत्यं नास्तीति कथ्यतेऽर्थात् तत्र कालनियमे काऽपि युक्तिः -उपपत्ति न विद्यत एवेति ॥ ३०॥
कस्यचिन्निरंकुशस्य वेदान्तिनश्चेदं मतं चिन्त्यम्उच्छृङ्खलस्य तच्चिन्त्यं, मतं वेदान्तिनो ह्यदः। प्रारब्धा-दृष्टतः किन्तु, ज्ञेया विद्वत्तनुस्थितिः॥ ३१॥
सर्वत्र युक्ति-उपपत्तिरूपशृङ्खला-रहितस्य उच्छृखलस्य कस्यचिद् वेदान्तिनो, हीति किलार्थे, अदः-इदं मतं स्थापितमस्ति तच्चिन्त्यंयुक्तिपूर्वकं सर्वथा विमृश्य यद् युक्तिमद्वचनं यस्य तस्य कार्यः परिग्रह इति न्यायादयुक्ति र्यत्र तत्तत्त्याज्यमेव, तत्र प्रतिवादे युक्तिः प्रदर्श्यते=