SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ११४ अध्यात्मोपनिषत् प्रतिवादी प्राह शरीरं विदुषः शिष्याद्यदृष्टाद्यदि तिष्ठति । तदाऽसुहृद - दृष्टेन, न नश्येदिति का प्रमा? ॥ २६ ॥ 'शरीर' मिति विद्वत्तासंपन्नस्य ज्ञानिनो गुरो: 'शिष्याद्यदृष्टाद्' शिष्य भक्तस्त्रेहिनामदृष्टात्कर्मतः शरीरं यदि तिष्ठति, तदाऽमित्रशत्रूणामदृष्टेन कर्मणा, नश्येन्नाशमाप्नुयान्नेति तत्र का प्रमाप्रमाणं किं ? यथा शिष्यादीनामदृष्टं - धर्माऽधर्मात्मकं कर्मज्ञानिशरीरस्थितिकारणं तथा अत्र विनिगमनाविरहेण अमित्रादीनामदृष्टं ज्ञानिशरीरस्थितिप्रतिबन्धकं तत्र किं प्रमाणं इत्यर्थः ? अर्थात् प्रमाणाभावप्रयुक्तो ज्ञानिशरीरस्थितिनियामक - शिष्याद्यदृष्टकारणाभावो ज्ञेय इति ॥ २६ ॥ अत्र वादिना नैयायिकानां सिद्धान्तं प्रमाणत्वेन पुरस्कृत्य स्वमतं साध्यतेन चोपादाननाशेऽपि क्षणं कार्यं यथेष्यते । तार्किकैः स्थितिमत्तद्व- च्चिरं विद्वत्तनुस्थितिः ॥ २७ ॥ यथा कार्यस्य जन्यस्योपादान- मूलकारणस्य नाशे - ध्वंसेऽपि तार्किकै:--नैयायिकैः कार्यं क्षणं-क्षणपर्यंतं स्थितिमदिष्यते-मतविषयीक्रियते तद्वत्-नैयायिकस्येव क्षणं कार्यं नेष्यते परन्तु चिरं - दीर्घकालपर्यन्तविद्वत्तनुस्थिति:- ज्ञानिशरीरस्थिति र्वेदान्तिभिरिष्यते इति (चिरं विद्वत्तनुस्थितिर्नेत्यप्यर्थो लगनीयः) ॥ २७ ॥ नैयायिकाभिमतनिरुपादानकार्यस्थितिः सहेतुकत्वेनेष्टानिरुपादान - कार्यस्य क्षणं यत्तार्किकैः स्थितिः । नाशहेत्वन्तराभावा-दिष्टा न च स दुर्वचः ॥ २८ ॥ यत् कारणात् तार्किकै :- उपादान - भिन्ननाशहेत्वन्तर- ध्वंसजनकान्यहेतूनामभावात् निरुपादानउपादानरहितकार्यस्य क्षणं क्षणकालपर्यन्तं
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy