SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ 'जन्मन्येकत्र दुःखाय, रोगो ध्वान्तं रिपुर्विषम् । अपि जन्मसहस्त्रेषु, मिथ्यात्वमचिकित्सितम् ॥३॥' (योगशास्त्रवृत्ति: ९६, ९७ ) इत्येतान् दोषान् त्यजन् षट्त्रिंशद्गुणो गुरुर्जयतु । इति गाथार्थः ॥ २५ ॥ १५ २१ इगवीससबलचाया, सिक्खासीलस्स पनरठाणाणं । अंगीकरणेण सया, छत्तीसगुणो गुरू जयउ ॥ २६ ॥ व्याख्या – गदितार्थैव । नवरं शबलतास्थानान्येकविंशतिः दगलेपादीनि । यदागमः ' वरिसंतो दस १ मास-स्स तिन्नि दगलेव माइठाणाई । आउट्टिया करतो २, वहा ३ लिया४ दिन्न ५ मेहुन्ने६ ॥ १ ॥ निसिभत्त७ कम्म८ निवपिं - ड९ कीयमाई अभिक्खसंवरिए १४ । कंदाई भुंजतो १५, उदउल्लहत्थाइगहणं च १६ ॥ २ ॥ सच्चित्तसिलाकोले १७, अइरावणिठाण १८ णिद्धससरक्खे १९ । छम्मासंतो गणसं - कर्म च २० करकम्म २१ मिय सबला ॥ ३ ॥ ' एतद्गमनिका यथा - वर्षान्तर्लेपानां दशकमाकुट्ट्या कुर्वतः साधोः प्रथमं शबलस्थानम् १। मासान्तर्दकलेपत्रयं कुर्वतो द्वितीयम् २ | वधं कुर्वतस्तृतीयम् ३। परमत्रानाकुट्ट्येति घटाकोटिमाटीकते । आकुट्टिवधे हि मूलप्रायश्चित्तापत्तिः, शबलता त्वप्राप्तमूलस्येति । यदुच्यते 'अवराहंमि पयणुए, जेणं मूलं न वच्चए साहू । सबलंति तं चरितं, तम्हा सबलत्तणं बिंति ॥ १ ॥' ( दशाश्रुतस्कन्धनिर्युक्तिः १३) तथाऽलीकं जल्पतश्चतुर्थम् ४। अदत्तं गृह्णतः पञ्चमम् ५। मैथुनं सेवमानस् षष्ठम् ६। निशि भुञ्जानस्य सप्तमम् ७। आधाकर्मिकं भुञ्जानस्याष्टमम् ८। नृपपिण्डं भुञ्जानस्य नवमम् ९ । क्रीतं गृह्णतो दशमम् १०। आदिशब्दात्सम्प्रदायाच्च प्रामित्यं गृह्णत एकादशमम् ११ । अभ्याहृतं गृह्णतो द्वादशमम् १२। आच्छिद्य गृह्णतस्त्रयोदशमम् १३ । अभीक्ष्णमसंवरस्याप्रत्याख्यान एकविंशतिः शबलतास्थानानि ...२२२...
SR No.022237
Book TitleGurugunshat Trinshtshatrinshika Kulak
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy