________________
वतश्चतुर्दशम् १४। कन्दादि भुञानस्य पञ्चदशम् १५। उदकाहस्ताद्गह्णतः षोडशम् १६। सच्चित्तशिलाकोलस्थायिनः सप्तदशम्, तत्र शिला सच्चित्तपृथिवीकायमयी, कोलो घुणस्तद्युक्तं काष्ठादिकमपि कोलमिति १७। तथाऽनन्तरितावनिस्थाने निषीदतोऽष्टादशम् १८। स्निग्धसरजस्कशरीरस्य भुञ्जानस्यैकोनविंशतितमम् १९। षण्मासान्तर्गणाद्गणान्तरसङ्क्रमणं कुर्वतो विंशतितमम् २०। करकर्मानङ्गक्रीडादिककामोपक्रमं कुर्वत एकविंशतितमम् २१। शबलतास्थानमिति। एतेषां परित्यागेन परिहारेणेत्यर्थः।
तथा शिक्षाशीलस्य पञ्चदशस्थानानामङ्गीकरणेन, तानि च नीचैर्वृत्त्यादीनि। यदार्षम् -
'अह पर्नरठाणेहिं, सिक्खासीलुत्ति वुच्चइ। नीयावित्ती १ अचवले २, अमाई ३ अकुतूहले ४॥१॥ अप्पं चाहिक्खिवई ५, पबंधं च न कुव्वई ६। मित्तिजमाणो भयई ७, सुअं लद्धं न मजई ८॥२॥ न य पावपरिक्खेवी ९, न य मित्तेसु कुप्पइ १०। अप्पियस्सावि मित्तस्स, रहे कल्लाण भासई ११॥३॥ कलहडमरवजए १२, बुद्धे अभिजाइए १३। हिरिमं १४ पडिसंलीणे १५, सुविणीउत्ति वुच्चइ॥४॥ वसे गुरुकुले निच्चं, जोगवं उवहाणवं। पियंकरे पियंवाई, से सिक्खं लडुमरिहइ॥५॥'
(उत्तराध्ययनसूत्रम् ३१८-३२२) इति गाथार्थः ॥२६॥ अथ षड्विंशतितमी षट्विंशिकामाह - बावीसपरीसहहियासणेण चाएण चउदसण्हं च।
अभिंतरगंथाणं, छत्तीसगुणो गुरू जयउ॥२७॥
व्याख्या - उत्तानार्थेव। नवरं द्वाविंशतिपरीषहाः क्षुत्पिपासादयः। यदागमः१. ड पुस्तके - “पनरस-" इत्यपि॥
१४
शिक्षाशीलस्य पञ्चदशस्थानानि
...२२३..