________________
सच्चित्तेन आगमगर्हितेन वा खरण्टितम् २। सच्चित्तपृथिव्यादिषु स्थापितं निक्षिप्तम् ३। सच्चित्तेन फलादिना छन्नं पिहितम् ४। अयोग्यसच्चित्तादिषूत्सार्य यद्दीयते तत्संहृतम् ५। दायकदोषा आभिर्गाथाभिरवसेयाः -
'थेरऽपहुपंडवेविरजरियंधव्वत्तमत्तउम्मत्ते। करचरणच्छिन्नपगलिय-नियलंडुपाउयारूढे॥१॥ खंडइ पीसइ भुंजइ, कत्तइ लोढेइ विक्खिणइ पिंजइ। दलइ विरोलइ जेमइ, जा गुव्विणि बालवच्छा य॥२॥ तह छक्काए गिण्हइ, घट्टइ आरभइ खिवइ दटु जई। साहरण चोरियंगं, देइ परक्कं पर8 वा॥३॥ ठवइ बलिं उव्वत्तइ, पिढराइ तहा सपच्चवाया जा। दितेसु एवमाइसु, ओहेण मुणी न गिण्हंति६॥४॥'(पिण्डविशुद्धिः ८५-८८)
योग्यमयोग्यं च सम्मील्य यद्दीयते तदुन्मिश्रम् ७। अपरिणतं द्विधाऽप्रासुकीभूतं द्रव्यापरिणतं, दायकादेरशुद्ध भावे भावापरिणतम् ८। दध्यादिलेपकृतसंसृष्टाभ्यां मात्रकराभ्यां सावशेषद्रव्येण च त्रिभिः पदैरष्टभङ्गयां विषमभङ्गेषु लिप्तम् ९। यत्र दीयमाने परिसाडिस्तच्छर्दितम् १०। एते एषणादोषा दश।।
ग्रासैषणादोषाः पञ्च संयोजनाद्याः। यदाह – 'संजोअणा १ पमाणे २, इंगाले ३ धूम ४ऽकारणे ५ तह य।' इति। संयोजनं लौल्यात् क्षीरशर्करादिमीलनम् १। प्रमाणातिरिक्तं षड्भागोनमात्राधिकम् २। इङ्गालं सरागप्रशंसनम्३। सधूमकं सद्वेषनिन्दितम् ४। अकारणं वेदनादिषट्कारणरहित५मिति॥
एकविधं मिथ्यात्वं चादेवादिष्वपि देवत्वादिबुद्धिलक्षणम्। यदाह - 'अदेवे देवबुद्धिर्या, गुरुधीरगुरौ च या।
अधर्मे धर्मबुद्धिश्च, मिथ्यात्वं तद्विपर्ययात्॥१॥'(योगशास्त्रम् ५९) 'मिथ्यात्वं परमो रोगो, मिथ्यात्वं परमं तमः।
मिथ्यात्वं परमः शत्रु-मिथ्यात्वं परमं विषम्॥२॥ १. स्थविराप्रभुपण्डकवेपथुमज्वरिताव्यक्तमत्तोन्मत्ताः। छिन्नकरचरणप्रगलत्कुष्ठनिगडितांदितपादुकारूढः॥ २. अ-पुस्तके-“उवउत्तइ” इत्यपि॥
पञ्चग्रासैषणादोषाः, एकविधं मिथ्यात्वम्
...२२१...