________________
१७
तथाऽभिग्रहचतुष्कं द्रव्य १ क्षेत्र २ काल ३ भावा ४ भिग्रहरूपम्। यदाह - 'दव्वओ १ खित्तओ २ चेव, कालओ ३ भावओ ४ तहा।
अभिग्गहा उ साहूणं, एवं हुंति चउव्विहा॥१॥' श्रूयते श्रीमन्महावीरस्य चतुर्धाऽप्यभिग्रहः। यथा - 'पृथ्वीनाथसुता भुजिष्यचरिता हंजीरिता मुण्डिता,
क्षुत्क्षामा रुदती विधाय पदयोरन्तर्गतां देहलीम्। कुल्माषान् प्रहरद्वयव्यपगमे मे सूर्पकोणेन चेद्, दद्यात्पारणकं तदा भगवतः सोऽयं महाभिग्रहः॥१॥' इति गाथार्थः॥२०॥ अथ विंशतितमी षट्त्रिंशिकामाह - सोलसवयणविहिन्नू, सत्तरसविहसंजमंमि उज्जुत्तो। तिविराहणाविरहिओ, छत्तीसगुणो गुरू जयउ॥२१॥
व्याख्या – गतार्था। नवरं षोडशधा वचनविधिः कालत्रिकादिकः। यदाह -
'कालतियं ३ वयणतियं ६, लिंगतियं९, तह परुक्खपच्चक्खं। उवणयवणय चउक्कं, अज्झत्थं चेव सोलसमं॥१॥'
कालत्रिकं अतीतादि। यथा-कृतवान् करोति करिष्यति। वचनत्रिकं एकवचनद्विवचनबहुवचनलक्षणम्। लिङ्गत्रिकं स्त्रीपुरुषनपुंसकलक्षणम्। परोक्षं स देवदत्तः। प्रत्यक्षं एष देवदत्तः। ‘उवणयवणय' इति उपनीतोपनीतं वचनं चतुर्धा, तत्र उपनीतोपनीतं यथा-अयं ऋद्धिमान् उदारश्च पुमान् १। उपनीतापनीतं यथाऋद्धिमान् परं कृपणः २। अपनीतोपनीतं यथा-अयं दरिद्रोऽप्युदारः ३। अपनीतापनीतं यथा-अयं दरिद्रः कृपणश्च ४। यद्वा स्त्री सुरूपा सुशीला च १। सुरूपा कुशीला च २। कुरूपा सुशीला च३। कुरूपा कुशीला च ४॥ अज्झत्थं' इति अध्यात्मवचनं यथा-मनोगतं किमप्यवक्तुकामोऽपि सहसा तदेव वक्ति १. “जञ्जीरिता” इत्यपि। २. प्रशंसावचनमुपनतं निन्दावचनं त्ववनतं द्विकयोगे चत्वारः। ३. अध्यात्ममन्यविवदिषोरपि अन्यवादसत्त्वः। अभिग्रहचतुष्कं, षोडशधा वचनविधिः
...२१३...