SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ तन्मालापहृतम् १३। यद्बलात्कस्मादपि उद्दाल्य गृही दत्ते तदाच्छेद्यम् १४। यद्बहुसाधारणं अन्यैरदत्तं एको गृही दत्ते तदनिसृष्टम् १५। यद्गृहिणा मूलारम्भे स्वार्थकृते तन्मध्ये यतिनिमित्तमधिकावतारणं सोऽध्यवपूरकः १६। इत्युद्गमदोषाः षोडश॥ 'धाई दूइ निमित्ते, आजीव वणीमगे तिगिच्छा य। कोहे माणे माया, लोभे य हवंति दस एए॥१॥ पुट्विं पच्छा संथव, विजा मंते य चुण्णजोगे य। उप्पायणाइ दोसा, सोलसमे मूलकम्मे य॥२॥'(पिण्डविशुद्धिः ५८,५९) यदा पिण्डार्थं दातुरपत्यानामङ्कारोपणादिलालनं करोति तदा धात्रीदोषः १। पिण्डार्थमेव संदेशकनयनादिकरणे दूतीदोषः २। पिण्डा) लाभालाभकथने निमित्तदोषः ३। पिण्डार्थं दातुः सत्कजात्यादि स्वस्य प्रकाशयतः आजीवनादोषः ४। यो दाता यद्भक्तस्तस्याग्रतस्तद्भक्तमात्मानं दर्शयतः साधोवनीपकदोषः ५। पिण्डार्थं दातृगृहे औषधादिना वमनादिना वा प्रतिकुर्वतो वैद्यादि सूचयतो वा चिकित्सादोषः ६। बलविद्याराजवर्णकतपःशक्तिप्रभावादिकोपभयाद्यं लभते स कोपपिण्डः ७। प्रशंसितोऽपमानितो वा दातुरभिमानोत्पादनेन यल्लभते स मानपिण्डः ८। एकगृहाद्गृहीत्वा रूपान्तरं कृत्वा मायावशाद्यत्पुनर्ग्रहणार्थं प्रविशति स मायापिण्डः ९। कस्यापि वस्तुनो गृङ्ख्या बहुतरमटतो लोभपिण्डः १०। जननीजनकश्वश्रूश्वशुरादिसम्बन्धपरिचयरूपं कुर्वतः पूर्वं पश्चाद्वा दानाद्दातारं वर्णयतो वा संस्तवदोषः ११। स्त्रीरूपदेवताधिष्ठितं पूर्वसेवाऽऽराध्यं च सप्रभाववर्णाम्नायं पिण्डार्थं प्रयुञ्जानस्य विद्यापिण्डः १२। पुरुषदेवाधिष्ठितं पठितसिद्धं च सप्रभाववर्णाम्नायं प्रयुञ्जानस्य पुनर्मन्त्रपिण्डः १३। अदृशीकरणहेतुं नयनाञ्जनादिकं कुर्वतश्चूर्णपिण्डः १४। सौभाग्यदौर्भाग्यफलान् पादलेपप्रभृतीन् योगान् पिण्डार्थमेव प्रयुञ्जानस्य योगपिण्डः १५। मङ्गलस्नानमूलिकाद्यौषधिरक्षादिना गर्भकरणविवाहभङ्गादि वशीकरणादि च पिण्डार्थं कुर्वतो मूलकर्म १६॥ इत्युत्पादनादोषाः षोडश॥ १. ड - पुस्तके- “प्रकाशने' इत्यपि। २. ब-पुस्तके-“पूर्वसेवोत्तरसेवाराध्यम्” इत्यपि। ...२१२... षोडशोत्पादनादोषाः
SR No.022237
Book TitleGurugunshat Trinshtshatrinshika Kulak
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy