________________
सोलससोलसउर्गम-उप्पार्यणदोसविरहियाहारो। चउविहभिग्गहनिरओ, छत्तीसगुणो गुरू जयउ॥२०॥ व्याख्या - प्रकटार्था। नवरं षोडशोद्गमदोषा आधाकर्मादयः। यदाह – 'आहाकम्मु १ देसिय२-पूइयकम्मे ३ य मीसजाए ४ य। ठवणा ५ पाहुडियाए ६, पाओयर ७ कीय ८ पामिच्चे ९॥१॥ परिअट्टिए १० अभिहडु ११-ब्भिन्ने १२ मालोहडे १३ य अच्छिज्जे १४। अणिसिट्ठ १५ ज्झोयरए १६, सोलस पिंडुग्गमे दोसा॥२॥'
(पिण्डविशुद्धिः ३,४) तद्गमनिका चेयम्-यत् षट्कायविराधनया यतिन आधाय सङ्कल्पेनाशनादिकरणं तदाधाकर्म १। यत्पुनर्गृहिणा स्वार्थं कृतं पश्चाद्यत्युद्देशेन पृथक् क्रियते तदौदेशिकम्। तत्त्रेधा, तत्र यद्यथाभूतं समुद्धृतं तत्तथाभूतमेव यावदर्थिकादीनां चतुर्णामुद्दिश्यमानमुद्दिष्टौद्देशिकम् १। यत्पुनः कूरादि दध्यादिना व्यञ्जनादिना वा जीवविराधनां विना संस्क्रियते तत्कृतौदेशिकम् २। यत्त्वग्न्यादिना जीवविराधनापूर्वं संस्क्रियते तत्कौदेशिकम् ३। तत्त्रिविधमपि चतुर्धा-यावदर्थिकमुद्देशम् १। पाषण्डिकार्थं समुद्देशम् २। श्रमणेभ्य आदेशम् ३। निर्ग्रन्थेभ्यः समादेशम् ४॥ एवं द्वादशधा औद्देशिकम् २। यदुद्गमकोटिदोषप्रदुष्टसङ्गात् शुद्धमपि अपवित्रं तत्पूतिकर्म ३। यदात्मनो हेतोर्गृहस्थेन यावदर्थिकादिहेतोश्च मिलितमारभ्यते तन्मिश्रम् ४। यद्यतिनिमित्तं गृही स्थापयित्वा मुञ्चति तद्गृह्णतः स्थापना ५। यत्स्वनिमित्तमपि गृही व्रतिन आजिगमिषून जिगमिषून् वा ज्ञात्वा अर्वाक् परतो वा तदर्थमारभते तत्प्राभृतिका ६। यन्महान्धकारस्थितस्य यतिनिमित्तं दीपादिना प्रकटनं बहिरालोके नयनं वा तत्प्रादुष्करणम् ७। यत्स्वकीयपरकीयाभ्यां मूल्येन विसाधितं तत्क्रीतम् ८। यदुच्छिन्नं याचित्वा गृही दत्ते तत्प्रामित्यम् ९। यत्पुनः परावर्त्य गृही यतिभ्यो दत्ते तत्प्रा(परा)वर्तितम् १०। यद्ग्रामान्तराद्गृहाद्वा यतिनिमित्तमानीतं तदाहृतम् ११। यन्मुद्रितकुतुपादिमुखं यतिहेतोरुन्मुद्र्य गृही घृतादि दत्ते तदुद्भिन्नम् १२। यत्करदुर्ग्राह्यं मालादिभ्य उत्तार्य गृही दत्ते
षोडशोद्गमदोषाः
...२११...