________________
धावतः पारदादेरिव ५। मानोदयान्मानसञ्ज्ञा, हुङ्कारान्मुञ्चतः कोकनदकन्दादेरिव ६। मायोदयान्मायासज्ञा, दलैः फलान्याच्छादयन्त्याश्चिर्भटिकावल्ल्यादेरिव ७। लोभोदयालोभसज्ञा, निधानं प्ररोहैर्वेष्टयतो बिल्वपलाशादेरिव ८। ज्ञानोपयोगरूपा
ओघसज्ञा, सञ्चरज्जनमार्ग परिहरन्त्या वृत्त्याद्यारोहन्त्या लतादेरिव ९। दर्शनोपयोगरूपा लोकसञ्ज्ञा, सूर्योदयाद्विकसतः कमलादेरिव १०। साताऽसातानुभवरूपे सुखदुःखसझे, सर्वजीवानां प्रतीते १२। मिथ्यादर्शनरूपा मोहसञ्ज्ञा, सूर्याभिमुखहस्तयोजिकोषध्यादेरिव १३। विप्लुतिरूपा विचकित्सा, सा चाऽशुचिस्पर्शादृष्टिदोषादेर्वा म्लानिं भजन्त्यास्तथाविधवल्ल्यादेरिव १४। शोकमोहनीयोदयाच्छोकसञ्ज्ञा, अश्रूणि विमुञ्चन्त्या रुदन्तीवल्ल्यादेरिव १५।
गारवत्रिकं च ऋद्धि १ रस २ सात ३ लक्षणम् । तथा चाह श्रीधर्मदासगणिः - 'पवराई वत्थपाया-सणोवगरणाइँ एस विभवो मे।
अवि य महाजणनेया, अहंति अह इड्डिगारविओ॥१॥ अरसं विरसं जहोववण्णं च निच्छए भुत्तुं। निद्धाणि पेसलाणि य, मग्गइ रसगारवे गिद्धो॥२॥ सुस्सूसई सरीरं, सयणासणवाहणापसंगपरो। सायागारवगुरुओ, दुक्खस्स न देइ अप्पाणं॥३॥'
(उपदेशमाला ३२४, ३२५, ३२६) शल्यत्रिकं माया १ निदान २ मिथ्यादर्शन ३ शल्यरूपम्। यदाह'पढमं मायासल्लं १, नियाणसल्लं २ तहा भवे बीयं। तइयं मिच्छादसण-सल्लं ३ भणियं कडुविवागं॥१॥ एएहिं सल्लेहि, सल्लियहियओ मरेइ जो जीवो। सो असुहासुं गच्छइ, गईसु बहुसो चिणिअपावो॥२॥' इति गाथार्थः॥१९॥
अथैकोनविंशतितमी षट्त्रिंशिकामाह - १. असौ॥ २. चितपापः॥
...२१०...
गारवत्रिकं, शल्यत्रिकम्