________________
प्रत्याहारस्त्विन्द्रियाणां, विषयेभ्यः समाहृतिः। धारणा तु क्वचिद्ध्येये, चित्तस्य स्थिरबन्धनम्॥४॥ ध्यानं तु विषये तस्मि-नेकप्रत्ययसन्ततिः। समाधिस्तु तदेवार्थ-मात्राभासनरूपकम्॥५॥'
(षड्दर्शनसमुच्चयः १५१-१५४) इति। तथाऽष्टौ महासिद्धयो महदै(है)श्वर्यरूपा लब्धयो लघिमाद्याः। यदाह - 'लघिमा१, वशिते२, शित्वं३, प्राकाम्यं४, महिमा५, ऽणिमा६। यंत्रकामावसायित्वं, प्राप्ति८, रैश्वर्यमष्टधा॥१॥'
(अभिधानचिन्तामणिनाममाला २/११६) 'भवेल्लघिमवानर्क-तूलादपि लघुर्लघुः। वशित्वसिद्धिमान् जन्तून्, क्रूरानपि वशं नयेत्॥२॥ ईशित्वशक्तिमान् शक्रा-देरपि स्यान्महर्द्धिकः। प्राकाम्यवान् भुवीवाप्सु, भुवि वाप्स्विव चङ्क्रमेत्॥३॥ महन्महिमवान्मेरो-रपि कुर्याद्वपुः क्षणात्। विशेदणिमवान् सूची-छिद्रेऽपि तनुतानवात् ॥४॥ भवेत्कामावसायित्वा-त्कामचारी सदाऽपि हि। प्राप्तिप्रभावतोऽर्कादीन्, स्पृशेद्भस्थोऽपि हेलया॥५॥' तथा मित्रातारादयो योगदृष्टयोऽप्यष्टावेव। यदाह'मित्रा १ तारा२ बला३ दीप्रा४, स्थिरा५ कान्ता६ प्रभा परा८। नामानि योगदृष्टीनां, लक्षणं च निबोधतः॥१॥ तृणगोमयकाष्ठाग्नि-कणदीपप्रभोपमा। रत्नतारार्कचन्द्राभा, सदृष्टेर्दृष्टिरष्टधा॥२॥' (योगदृष्टिसमुच्चयः १३,१५) तथा चत्वारोऽनुयोगाः चरणानुयोगाद्याः। यदाह'चत्तारि य अणुओगा, चरणे धम्म गणियाणुओगे य।
दवि अणुओगे य तहा, अहकम्मं ते महिड्डीया॥१॥ १. ड-पुस्तके- 'कामावशायित्वम्' इत्यपि॥ ...१९०...
अष्टौ महासिद्धयः, अष्टौ योगदृष्टयः, चत्वारोऽनुयोगाः