SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ 'उप्पत्तिय भरहाई, वेणइयाए निमित्तमाईया | कम्मिय हिरणियाई, परिणामियबुद्धि अभयाई ॥ ७ ॥ ' इत्येवं षट्त्रिंशद्गुणो गुरुर्जयतु । इति गाथार्थः ॥ ७ ॥ अथ सप्तमषट्त्रिंशिकासूत्रगाथामाह अट्ठविहर्कम्मअट्ठ-गजोगमहसिद्धिजोर्गदिट्ठिविऊ । चउविहऽणुओगनिउणो, छत्तीसगुणो गुरू जयउ ॥ ८ ॥ व्याख्या – अष्टविधकर्मणां, अष्टाङ्गयोगस्य, अष्टाङ्गमहासिद्धेः, अष्टाङ्गयोगदृष्टेश्च स्वरूपं वेत्ति इत्यष्टविधकर्माष्टाङ्गयोगमहासिद्धियोगदृष्टिवित्, चतुर्विधानुयोगनिपुणो विचक्षणश्चेति षट्त्रिंशद्गुणो गुरुर्जयत्विति सङ्क्षेपार्थः । ४ विस्तरार्थस्त्वयम्- अष्टविधानि कर्माणि ज्ञानावरणीयादीनि मूलप्रकृतिरूपाणि सोत्तरप्रकृति-विस्तराण्यपि विदन् गुरुर्भवति । तानि कर्माणि च ज्ञानावरण १ दर्शनावरण २ वेदनीय ३ मोहनीया४ यु५ र्नाम६ गोत्रा ७ न्तरायलक्षणानि । यदाह - - 'इह नाण १ दंसणावर - ण२ वेय३ मोहा४ उ५ नाम६ गोयाणि ७ । विग्घं च पण नव दु अ-ट्ठवीस चउतिसय दु पणविहं ॥ १ ॥ ' इत्यादि विस्तरः कर्मविपाकादेरवसेयः । तथा अष्टाङ्गो योगो यमनियमादिकः । यदाह - - ( कर्मविपाकः ३ ) 'यम १ नियमा२ सन३ पवन४ - प्रत्याहाराः ५ सुधारणा६ ध्यानम् ७ । सुसमाधि८ श्चेत्यष्टावङ्गानि वदन्ति योगस्य ॥१ ॥ अहिंसासूनृतास्तेय-ब्रह्माऽकिञ्चनता यमाः । २ नियमाः शौचं सन्तोषः, स्वाध्यायतपसी अपि ॥२॥ देवताप्रणिधानं च, करणं पुनरासनम् । प्राणायामः प्राणयमः, श्वासप्रश्वासरोधनम् ॥३॥ १. ब - पुस्तके - 'ज्ञानावरणादीनि' इत्यपि । २. 'नियमाः शौचसन्तोषौ' इति नाममाला ॥ अष्टविधानि कर्माणि, अष्टाङ्गो योगः ...१८९...
SR No.022237
Book TitleGurugunshat Trinshtshatrinshika Kulak
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy