SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ तत्त्वनिर्णयः। प्रत्यक्षमनुमानमुपमानमागमोऽर्थापत्तिरभावश्चेति षट् प्रमाणानि। नित्याद्येकान्तवादः। वेदविहितानुष्ठानं मोक्षमार्गः। नित्यनिरतिशयसुखाविर्भावश्च मोक्षः। इत्यादि मीमांसकमतम् २। बुद्धदर्शने बुद्धो देवता। दुःखायतनसमुदयमार्गरूपाणि आर्यसत्यसञ्ज्ञानि चत्वारि तत्त्वानि। प्रत्यक्षमनुमानं च द्वे प्रमाणे। क्षणिकैकान्तवादः। सर्वक्षणिकत्वसर्वनैरात्म्यवासनाक्लेशसमुदयच्छेदनं प्रदीपस्येव ज्ञानसन्तानोच्छेदश्च मोक्षः। इत्यादि बौद्धमतम् ३। नैयायिकदर्शने ईश्वरो देवता। प्रमाण १ प्रमेय २ संशय ३ प्रयोजन ४ दृष्टान्त ५ सिद्धान्ता ६ ऽवयव ७ तर्क ८ निर्णय ९ वाद १० जल्प ११ वितण्डा १२ हेत्वाभास १३ च्छल १४ जाति १५ निग्रहस्थानानि १६ षोडश तत्त्वानि। प्रत्यक्षमनुमानमुपमानमागमश्चेति चत्वारि प्रमाणानि। नित्यानित्यैकान्तवादः। आत्मादिप्रमेयतत्त्वज्ञानं मोक्षमार्गः। षडिन्द्रियाणि ६, षड् विषयाः १२, षड्बुद्धयः १८, सुखं १९, दुःखं २०, शरीरं २१ चेत्येकविंशतिप्रभेदभिन्नस्य दुःखस्यात्यन्तं छेदे च मोक्षः। इत्यादि नैयायिकमतम् ४। वैशेषिकदर्शनेऽपीश्वरो देवता। द्रव्यगुणकर्मसामान्यविशेषसमवायाख्याः षट् पदार्थास्तत्त्वतयाऽभिप्रेताः। प्रत्यक्षमनुमानं चेति प्रमाणद्वयं। नित्यानित्यैकान्तवादः। आत्मनः श्रवणमनननिदिध्यासनसाक्षात्कारो मोक्षमार्गः। बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काररूपाणां नवानां विशेषगुणानामत्यन्तोच्छेदे च मोक्षः। इत्यादि वैशेषिकमतम् ५। साङ्ख्यदर्शने ईश्वरः कपिलो वा देवः। आत्मा, प्रकृतिः, महानहङ्कारः, गन्धरूपरसस्पर्शशब्दाख्यानि पञ्च तन्मात्राणि, पृथिव्यप्तेजोवाय्वाकाशाख्यानि पञ्च भूतानि, घ्राणरसनचक्षुस्त्वक्श्रोत्रमनांसीति षड् बुद्धीन्द्रियाणि, पायूपस्थवचःपाणिपादाख्यानि पञ्च कर्मेन्द्रियाणि इत्येवं पञ्चविंशतितत्त्वानि। प्रत्यक्षमनुमानमागमश्चेति प्रमाणत्रयम्। नित्यैकान्तवादः। पञ्चविंशतितत्त्वज्ञानं मोक्षमार्गः। प्रकृतिपुरुषविवेकदर्शनान्निवृत्तायां प्रकृतौ पुरुषस्य स्वरूपेणावस्थानं मोक्षः। इत्यादि साङ्ख्यमतम् ६॥ नास्तिकाः कापालिकाः। तेषां दर्शनाभासे सर्वज्ञो नास्ति, अधर्मो नास्ति, धर्मोऽपि नास्ति, जीवो नास्ति, परलोको नास्ति। इत्यादि तन्मतम्। प्रत्यक्षं चै प्रमाणम्। मोक्षोऽपि नास्त्येव। इति नास्तिकमतम्। इत्येवंभूतषड्दर्शनतर्का इति॥७॥ ...१८२... तर्कषट्कम् तक
SR No.022237
Book TitleGurugunshat Trinshtshatrinshika Kulak
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy