________________
अथ प्रत्याख्यानम्‘पच्चक्खाणं दुविहं, मूलगुणे चेव उत्तरगुणे य। मूले पंचविहं खलु, साहूणं होइ नायव्वं ॥१॥ सड्डाणं तु दुवालस - भेअं मूलंमि पच्चक्खाणं तु। उत्तरगुणदुण्हंपि हु, तं नमुक्कारसहियाई॥२॥' इति॥ तथा सद्व्यषट्कम्, धर्माधर्माकाशकालजीवपुद्गललक्षणम्। यदाह - 'धम्मो तहा अहम्मो, नहो य कालो तहेव जीवो य। तह पुग्गला य एयं, भणियं सद्दव्वछक्कंति॥१॥' 'गइलक्खणो य धम्मो, अहम्मो ठाणलक्खणो। भायणं सव्वदव्वाणं, नहं ओगाहलक्खणं॥२॥ वत्तणालक्खणो कालो, जीवो उवओगलक्खणो। नाणेणं दंसणेणं च, सुहेण य दुहेण य॥३॥ सबंधयारउज्जोयपहाछायातवेइया।
वण्णगंधरसा फासा, पुग्गलाणं तु लक्खणं॥४॥' (उत्तराध्ययनसूत्रम् १०५१, १०५२, १०५४) इति॥
तथा तर्कषट्कम्, षड्दर्शनप्रवादलक्षणम्। तानि दर्शनानि चामूनि'जैनं १ मीमांसकं २ बौद्धं ३ नैयायिकं ४ वैशेषिकं ५ साङ्ख्य ६ मिति क्रमात्॥१॥ केचिन्यायविशेषाभ्यां, तर्काभ्यां शैवमेककम्। मन्यन्ते तन्मते ज्ञेयं, षष्ठं नास्तिकदर्शनम्॥२॥'
तेषां षण्णामपि तर्काः स्वस्वमतप्ररूपणरूपाः। तथाहि- जैनदर्शनेऽर्हन् देवता। जीवाजीवपुण्यपापास्रवसंवरबन्धमोक्षनिर्जराख्यानि नव तत्त्वानि। प्रत्यक्षं परोक्षं चेति प्रमाणे द्वे। नित्यानित्याद्यनेकान्तवादः। सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः। सकलकर्मक्षये लोकाग्रप्रदेशे नित्यज्ञानानन्दमयश्च मोक्षः। इत्यादि जैनमतम् १। मीमांसकदर्शने सर्वज्ञो देवता नास्ति। किन्तु नित्यवेदवाक्येभ्य एव १. ब-ड-पुस्तके 'तहा छायातवोवि य' इत्यपि। २. ब - पुस्तके 'दर्शनानां' इत्यधिकम्।।
सद्रव्यषट्कम्
...१८१...