________________
अधिकरणोदीरकम् - 'खामियउवसमियाई, अहिगरणाइं पुणो उदीरेइ।
जो कोइ तस्स वयणं, अहिगरणोदीरणं भणिअं॥६॥' तथा षड् लेश्याः, कृष्ण १ नील २ कापोत ३ तेजः ४ पद्म ५ शुक्ल ६ लेश्यालक्षणाः। यदागमः -
'किण्हा १ नीला २ काऊ ३, तेऊ ४ पम्हा ५ य सुक्क ६ लेसा य। एयाउ सनामसमा-णचित्तपरिणाम-रूवाओ॥१॥' अपरं च - कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः। स्फाटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते॥१॥ रुद्रो दुष्टः सदा क्रोधी, कलही धर्मवर्जितः। निर्दयो वैरसंयुक्तः, कृष्णलेश्य उदाहृतः॥२॥ अलसो मन्दबुद्धिश्च, स्त्रीलुब्धश्च प्रपञ्चवान्। दीर्घरोषी सदामानी, नीललेश्यः प्रकीर्तितः॥३॥ चिन्तातुरो विषादी च, परनिन्दाऽऽत्मशंसकृत् । सङ्ग्राममरणाशंसी, प्रोक्तः कापोतलेश्यकः॥४॥ विद्यावान् करुणासिन्धुः, कार्याकार्यविचारकः। लाभालाभे सदा प्रीत-स्तेजोलेश्य उदाहृतः॥५॥ शक्तः क्षमी सदा त्यागी, देवतार्चन उद्यमी। शुचिः शीलसदानन्दः, पद्मलेश्यः प्ररूपितः॥६॥ परात्मकार्यकृत् स्वस्थो, वाञ्छाशोकविवर्जितः। रागद्वेषभयत्यक्तः, शुक्ललेश्यः प्रदर्शितः॥७॥
एतासां च क्रमेण परिणामविशेषान्तरदर्शकः सहकारादितरुफलस्पृहयालुषट्पथिकपुरूषाणां ग्रामभङ्गोद्यतधाटीपुरुषाणां च दृष्टान्तः सुप्रतीत एव। तत्सङ्ग्रहश्चायम् - १. ड पुस्तके - ‘शीलः सदानन्दो' इत्यपि।
षड् लेश्याः
....१७८...