________________
केवलिनः शैलेषी-गतस्य शैलवदकम्पनीयस्य। उच्छिन्नक्रियमप्रति-पाति तुरीयं परम-शुक्लम्॥४॥ एकं त्रियोगभाजा-माद्यं स्यादपरमेकयोगवताम्। तनुयोगिनां तृतीयं, निर्योगानां चतुर्थं च॥५॥' (योगशास्त्रम् ८९८-३०२)
इति षट्त्रिंशद्गुणयुतो गुरुर्जयत्विति सर्वोत्कर्षेण प्रवर्तताम्। इति गाथार्थः॥२॥
अथ द्वितीयषट्त्रिंशिकासूत्रगाथामाह - पणविहसम्मचरणवय-ववहारायारसमिइसज्झाए। इंगसंवेगे अ रओ, छत्तीसगुणो गुरू जयउ॥३॥
व्याख्या - प्रत्येकं पञ्चविधेषु सम्यक्त्वचारित्रव्रतव्यवहाराचारसमितिस्वाध्यायेषु, एकस्मिंश्च संवेगे रतः, इति षट्त्रिंशद्गुणो गुरुर्जयत्विति सक्षेपार्थः।
विस्तरार्थस्त्वयम् – पञ्चविधं सम्यक्त्वम्- क्षायिकं १, क्षायोपशमिकम् २, वेदकम् ३, औपशमिकं ४, सास्वादनं ५ चेति। यदुक्तम् -
'खइअं १ खओवसमिअं २, वेअग ३ उवसामिअं ४ च सासणयं ५। पंचविहं सम्मत्तं, पन्नत्तं वीयरागेहिं॥१॥' (पुष्पमाला १०६)
एतद्गमनिका यथा-कृतत्रिपुञ्जस्य चतुर्थगुणस्थानकादारभ्य क्षपकत्वे प्रारब्धे अनन्तानुबन्धिचतुष्कस्य मिथ्यात्वमिश्रसम्यक्त्वरूपपुञ्जत्रयस्य च क्षये क्षायिकसम्यक्त्वं भवति। अप्राप्तपूर्वोऽध्यवसायविशेषोऽपूर्वकरणमुच्यते। तत्र कृतत्रिपुञ्जस्य जीवस्य उदीर्णमिथ्यात्वक्षये अनुदीर्णस्य चोपशमे क्षायोपशमिकं सम्यक्त्वं भवति। तेष्वेवानन्तानुबन्ध्यादिषु षट्सु क्षपितेषु सम्यक्त्वपुजे च बहुतरे क्षपिते चरमग्रासीकृतसम्यक्त्वपुद्गलानां वेदने वेदकसम्यक्त्वं भवति। तथा अपूर्वकरणेनैव कृतग्रन्थिभेदस्य उदीर्णे मिथ्यात्वे क्षीणेऽनुदीर्णे चाप्राप्तस्य अन्तरकरणे अन्तर्मुहूर्तं कालं सर्वथैव मिथ्यात्वावेदकस्य औपशमिकं सम्यक्त्वं भवति। उपशमश्रेणिं वा समारूढस्य मिथ्यात्वादीनामुपशमे सति औपशमिकं १. अ-पुस्तके - ‘सासाणं' इत्यपि॥
पञ्चविधं सम्यक्त्वम्
...१६७...