________________
अथ रूपस्थादि चतुर्धा। यथा – रूपस्थं १, पदस्थं २, पिण्डस्थं ३, रूपातीतं ४ चेति। यदवाचि -
'रूपस्थं च पदस्थं च, पिण्डस्थं रूपवर्जितम्। धर्मध्यानं चतुर्भेदमित्थं वा परिकीर्तितम्॥१॥ पश्यति प्रथमं रूपं, स्तौति ध्येयं ततः पदैः। तन्मयः स्यात्ततः पिण्डे, रूपातीतं ततो व्रजेत्॥२॥ यथाऽवस्थितमालम्ब्य, रूपं त्रिजगदीशितुः। क्रियते यन्मुदा ध्यानं, तद्रूपस्थं निगद्यते॥३॥'
(विवेकविलासः ११/३६, ३७, ३८) 'स्वाध्याये यदि वा मन्त्रे, गुरुदेवस्तुतावपि। चित्तस्यैकाग्रता यत्त-त्पदस्थं ध्यानमुच्यते॥४॥ नाभिपद्मादिरूपेषु, ध्यानं स्थानेषु योगिनाम्। यदिष्टदेवतादीनां, तत्पिण्डस्थं निगद्यते॥५॥' 'निर्लेपस्य निरूपस्य, सिद्धस्य परमात्मनः। चिदानन्दमयस्य स्याद्, ध्यानं रूपविवर्जितम्॥६॥'
(विवेकविलासः ११/५४) अथ शुक्लध्यानं चतुर्धा। यथा – पृथक्त्ववितर्कसप्रवीचारशुक्लं १, एकत्ववितर्काप्रवीचारशुक्लं २, सूक्ष्मक्रियाप्रतिपातिशुक्लं ३, व्यवच्छिन्नक्रियाप्रतिपातिशुक्लं ४ चेति। तत्स्वरूपं चेदम् – 'एकत्र पर्ययाणां, विविधनयानुसरणं श्रुताद्रव्ये।
अर्थव्यञ्जनयोगान्तरेष्वसङ्क्रमणमाद्यं तत्॥१॥ एवं श्रुतानुसारा-देकत्ववितर्कमेकपर्यायम्। अर्थव्यञ्जनयोगा-न्तरेष्वसङ्क्रमणमन्यत्तु॥२॥ निर्वाणगमनसमये, केवलिनो दरनिरुद्धयोगस्य।
सूक्ष्मक्रियाऽप्रतिपाति, तृतीयं कीर्तितं ध्यानम्॥३॥ १. अ-ड-पुस्तके - 'योगान्तरेषु सङ्क्र-' इत्यपि।
चतुर्विधानि चत्वारि ध्यानानि
...१६६...