SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ 'मैत्र्यादिभिश्चतुर्भेद, यद्वाऽऽज्ञादि चतुर्विधम्। रूपस्थादि चतुर्था वा, धर्मध्यानं प्रकीर्तितम्॥१॥' तत्र मैत्र्यादिभिश्चतुर्धा। यथा-मैत्री १, प्रमोदः २, कारुण्यं ३, माध्यस्थ्यं ४ चेति। यदाहुः श्रीहेमचन्द्रसूरिपादाः - 'मैत्रीप्रमोदकारुण्य-माध्यस्थ्यानि नियोजयेत्। धर्मध्यानमुपस्कर्तुं, तद्धि तस्य रसायनम्॥१॥ मा कार्षीत् कोऽपि पापानि, मा च भूत्कोऽपि दुःखितः। मुच्यतां जगदप्येषा, मतिमैत्री निगद्यते॥२॥ अपास्ताशेषदोषाणां, वस्तुतत्त्वावलोकिनाम्। गुणेषु पक्षपातो यः, स प्रमोदः प्रकीर्तितः॥३॥ दीनेष्वार्तेषु भीतेषु, याचमानेषु जीवितम्। प्रतीकारपरा बुद्धिः, कारुण्यमभिधीयते॥४॥ क्रूरकर्मसु निःशवं, देवतागुरुनिन्दिषु। आत्मशंसिषु योपेक्षा, तन्माध्यस्थ्यमुदीरितम्॥५॥'(योगशास्त्रम् ४४३-४४७) तथा आज्ञादिभिश्चतुर्धा। यथा-आज्ञाविचयः १, अपायविचयः २, विपाकविचयः ३, संस्थानविचयः ४ चेति। यदाह - 'आज्ञाऽपायविपाकानां, संस्थानस्य च चिन्तनात्। इत्थं वा ध्येयभेदेन, धर्मध्यानं चतुर्विधम्॥१॥ आज्ञां यत्र पुरस्कृत्य, सर्वज्ञानामबाधिताम्। तत्त्वतश्चिन्तयेदर्थान्, तदाज्ञाध्यानमुच्यते॥२॥ रागद्वेषकषायाद्यै-र्जायमानान् विचिन्तयेत्। यत्रापायांस्तदपाय-विचयध्यानमिष्यते॥३॥ प्रतिक्षणं समुद्भूतो, यत्र कर्मफलोदयः। चिन्त्यते चित्ररूपः, स विपाकविचयो मतः॥४॥ अनाद्यन्तस्य लोकस्य, स्थित्युत्पादव्ययात्मनः । आकृतिं चिन्तयेद्यत्र, संस्थानविचयः स तु॥५॥' (योगशास्त्रम् ८७५,८७६,८७८, ८८०, ८८२) चतुर्विधानि चत्वारि ध्यानानि ...१६५...
SR No.022237
Book TitleGurugunshat Trinshtshatrinshika Kulak
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy