________________
अथवा सात्त्विकं १ राजसं २ तामसं ३ इति त्रिधा। यथा – 'श्रद्धया परया तप्तं, तपस्तत्रिविधं नरैः।
अफलाकाङ्क्षिभिर्युक्तैः, सात्त्विकं परिचक्षते॥१॥ सत्कारमानपूजार्थं, तपो दम्भेन चैव यत्। क्रियते तदिह प्रोक्तं, राजसं चलमध्रुवम्॥२॥ मूढग्राहेण यच्चात्म-पीडया क्रियते तपः। परस्योच्छेदनार्थं वा, तत्तामसमुदाहृतम्॥३॥' (श्रीमद्भगवद्गीता १७-१९)
अथ भावधर्म उच्यते । स च क्षायोपशमिकादिकशुभलेश्यापरिणामविशेषाद्दानादौ सर्वत्र स्वारसिकः चित्तसमुल्लास एव भावधर्म उच्यते। यदाह -
'दाने शीले तपसि च, यत्स्वारसिको मनःसमुल्लासः।
शुभलेश्यानन्दमयो, भवत्यसौ भावधर्म इति॥१॥' विपर्यासे तु न धर्मः। यतः - 'ज्ञाने ध्याने दाने, मौने माने सदोद्यतो भवतु। यदि निर्मलो न भाव-स्तदा हुतं भस्मनि समग्रम्॥१॥' अपि च - 'घनं दत्तं वित्तं जिनवचनमभ्यस्तमखिलं, क्रियाकाण्डं चण्डं रचितमवनौ सुप्तमसकृत्। तपस्तीवं तप्तं चरणमपि चीर्णं चिरतरं, न चेच्चित्ते भावस्तुषवपनवत्सर्वमफलम्॥१॥' (सुक्तिमुक्तावली ८८) अपि च - 'ज्वालाभिः शलभा जलैर्जलचराः स्फुर्जजटाभिर्वटा, मौण्ड्यरूरणकाः समस्तपशवो नाग्न्यैः खरा भस्मभिः। कष्टाङ्गीकरणैर्दुमाः शुकवराः पाठैर्बका ध्यानकैः, किं सिध्यन्ति न भावशुद्धिविकलाः स्युश्चेत् क्रियाः सत्फलाः॥१॥'
चतस्रो भावनाः। यथा – ज्ञानभावना, दर्शनभावना, चारित्रभावना, १. तीर्थकरादिबहुमाने॥
...१६२...
चतुस्रः भावनाः