________________
वैराग्यभावना चेति। तथा चोच्यते
'भावनाभिरसम्मूढो, मुनिर्ध्याने स्थिरीभवेत् । ज्ञानदर्शनचारित्र - वैराग्योपगताश्च ताः ॥ १ ॥ ' 'वाचना पृच्छना सानु - प्रेक्षणं परिवर्तनम् । सद्धर्मदेशनं चेति, ज्ञातव्या ज्ञानभावना ॥ २ ॥ संवेगः प्रशमः स्थैर्य-मसम्मूढत्वमस्मयः । आस्तिक्यमनुकम्पेति, ज्ञेया सम्यक्त्वभावना ॥ ३ ॥ ईर्यादिविषया यत्ना, मनोवाक्कायगुप्तयः । परीषहसहिष्णुत्व - मिति चारित्रभावना ॥४॥
विषयेष्वनभिष्वङ्गः, कायतत्त्वानुचिन्तनम् ।
जगत्स्वभावचिन्तेति, वैराग्यस्थैर्यभावना ॥ ५ ॥ ' (ध्यानदीपिका ८-११) अथ चतस्रः स्मारणादिकाः । यथा - स्मारणा, वारणा, नोदना, प्रतिनोदना चेति । यदाह
'सारणा वारणा चेव, चोयणा पडिचोअणा ।
सीअंताणं सुसीसाणं, दायव्वा होइ सूरिणा ॥ १ ॥ '
'पम्हट्टे सारणा वुत्ता, अणायारस्स वारणा ।
चुक्काणं चोअणा भुज्जो, निठुरा पडिचोअणा ॥२॥ ' ( विचारसारः २३८ ) 'जहिं नत्थि सारणा वारणा य संचोअणा य गच्छंमि ।
सो गच्छोवि अगच्छो, संजमकामीहिं मुत्तव्वो ॥ ३ ॥ ' ( पुष्पमाला ३४० ) 'जीहाएवि लिहतो, न भद्दओ जत्थ सारणा नत्थि ।
दंडेणवि ताडंतो, स भद्दओ सारणा जत्थ ॥ ४ ॥ ' ( पुष्पमाला ३३६ ) इत्येतेषु देशनाकथाधर्मभावनास्मारणादिपदेषु यथायोगं करणकारणोपदेशादिविधौ कुशलमतिर्गुरुर्भवतीति ।
अथ चतुर्विधानि चत्वारि ध्यानानि । यथा - आर्तध्यानं, रौद्रध्यानं, धर्मध्यानं, शुक्लध्यानं चेति । तच्च एकैकमपि चतुर्विधम् । तत्रार्तं चतुर्धा, यथा-अनिष्टयोगार्तं, १. विस्मृते । २. भूयः स्खलितानाम् ।
चतस्रः
स्मारणादिकाः
..१६३...