SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ - कूपदृष्टान्तविशदीकरणं । यशो. तथाहि-पराघातोच्छ्वासनाम्नोः पर्याप्तनाम्नैव सह बन्धः, नाऽपर्याप्त नाम्नाऽतोऽध्रुवबन्धित्वम्। ननु कथं एतासां निजहेतुसद्भावेऽपि अवश्यंबन्धस्याभावः ? इति चेत् तथाहि - पराघातोच्छ्वास इत्यादि। अष्टमगुणस्थाने तयोः बन्धविच्छेदोऽस्ति, तत्पूर्वं तु तयोः सामान्यबन्धहेतुः अस्ति, किन्तु पर्याप्तनामकर्मणैव सह तयोर्बन्धो भवतीति पर्याप्तबन्धाभावे तयोर्बन्धो नास्तीति अध्रुवबन्धित्वमिति। यशा.: आतपं पुनरेकेन्द्रियप्रायोग्यप्रकृतिसहचरितमेव बध्यते, नान्यदा। उद्योतं तु तिर्यग्गतिप्रायोग्यबन्धिनैव सह। यन्द्र.: एवं आतपमपि बन्धविच्छेदात्पूर्वमपि एकेन्द्रियप्रायोग्यप्रकृतिसहचरितमेव बध्यते, नान्यदा = एकेन्द्रियप्रकृतिबन्धाऽभावकाले, ततश्च तदपि अध्रुवबन्धि। यशो.: आहारकद्विक-जिननाम्नी अपि यथाक्रमं संयमसम्यक्त्वप्रत्ययेनैव बध्येते, नान्यदेत्यधुवबन्धित्वम्। शेषशरीरादिषट्षष्टिप्रकृतीनां सविपक्षत्वानिजहेतुसद्भावेऽपि नाऽवश्यं बन्ध इति तथात्वं सुप्रतीतम् । यन्द्र.: यथाक्रम = आहारकद्विकं संयमरूपेण प्रत्ययेण = कारणेन, जिननाम च सम्यक्त्वरूपेण प्रत्ययेण = कारणेन एव बध्यते, नान्यदा इति अध्रुवबन्धित्वम् । शेषशरीरादि इत्यादि। सविपक्षत्वात् = परस्परमेव विरोधित्वात्। तथाहि - संहननषट्कमध्ये एकबन्धेऽपरपञ्चकबन्धाभाव एव, एवं संस्थानषट्कमध्येऽपि किञ्चिदेकमेव बध्यते। एवं त्रसदशकस्य स्थावरदशकस्य परस्परं विरोधित्वम्, एवं सातासातयोः, हास्यरतियुगलशोकारतियुगलयोः परस्परं विरोधः। एवं जातिपञ्चकमध्ये किञ्चिदेकमेव बध्यते, वेदत्रयमध्ये कश्चिदेक एव, आयुश्चतुष्टयमध्ये किञ्चिदेकमेवेत्यादि स्पष्टमेव। एतदेवाह - तथात्वं = अध्रुवबन्धित्वं सुप्रतीतम् पञ्चमकर्मग्रन्थाध्येतृणां इति शेषः। ___ यशो. : तत्र ध्रुवबन्धिनीषु भङ्गत्रयम्, अनाद्यनन्तो बन्धः, अनादिसान्तः, सादिसान्तश्च। तत्र प्रथमभङ्गकः सर्वासामपि तासामभव्याश्रितः, तबन्धस्यानाद्यनन्तत्वादिति। द्वितीयभङ्गकस्तु ज्ञानावरणपञ्चकदर्शनावरणचतुष्कान्तरायपञ्चकलक्षणानां चतुर्दशप्रकृतीनाम् अनादिकालात् संतानभावे प्रवृत्तस्य बधस्य सूक्ष्मसम्परायचरमसमये यदा व्यवच्छेदः, तदा । आसामेव चतुर्दशप्रकृतीनामुपशान्तमोहे यदाऽबन्धकत्वमासाद्याऽऽयुःक्षयेणाद्धाक्षयेण वा प्रतिपतितः सन् पुनर्बन्धेन सादिबधं विधाय भूयोऽपि सूक्ष्मसम्परायचरमसमये यदा बन्धविच्छेदं विधत्ते, तदा तृतीयः। संज्वलनकषायचतुष्कस्य तु सदैव
SR No.022223
Book TitleKupdrushtant Vishadikaranam
Original Sutra AuthorN/A
AuthorChandreshakharvijay
PublisherKamal Prakashan Trust
Publication Year
Total Pages106
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy