________________
-
कूपदृष्टान्तविशदीकरणं । प्रवृत्तबन्धभावस्य यदाऽनिवृत्तिबादरादिर्बधविच्छेदं विधत्ते, तदा द्वितीयः। ततः प्रतिपतितस्य पुनर्बन्धेन| संज्वलनबन्धं सादि कृत्वा कालान्तरेऽनिवृत्तिबादरादिभावप्राप्तौ तद्बन्धविच्छेदसमये तृतीयः। निद्राप्रचलातैजस-कार्मणवर्णचतुष्काऽगुरुलघूपघातनिर्माणभयजुगुप्सास्वरूपाणां त्रयोदशप्रकृतीनामनादिकालादनादिबधं विधाय यदाऽपूर्वकरणाद्धायां यथास्थानं बन्धोपरमं करोति, तदा द्वितीयो भगः। यदा तु ततः प्रतिपतितस्य पुनर्बन्धेन सादित्वमासादयन् बन्धः कालान्तरेऽपूर्वकरणमारूढस्य निवर्त्तते, तदा तृतीयः। चतुर्णां प्रत्याख्यानावरणानां बन्यो देशविरतगुणस्थानकं यावदनादिस्ततः प्रमत्तादौ बन्धोपरमात् सान्त इति द्वितीयः। प्रतिपतितबधापेक्षया तृतीयः। अप्रत्याख्यानावरणानां त्वविरतसम्यग्दृष्टिं यावदनादिबन्धं कृत्वा देशविरतादावबन्धकत्वसमये द्वितीयः। प्रतिपातापेक्षया तृतीयः। मिथ्यात्वस्त्यानर्द्धित्रिकानन्तानुबन्धिनां तु मिथ्यादृष्टिरनादिबन्धको यदा सम्यक्त्वाऽवाप्तौ बन्धोपरमं करोति तदा द्वितीयो भङ्गः। पुनर्मिथ्यात्वे गत्वा तान् बद्ध्वा यदा भूयोऽपि सम्यक्त्वलाभे न बनाति तदा तृतीयः। इत्येवं ध्रुवबन्धिनीनां भङ्गत्रयम्।
यन्द्र.: अधुना तेषु अनाद्यनन्तादिभङ्गकान् प्रदर्शयति - तत्र = १२० प्रकृतिषु मध्ये ध्रुवबन्धिनीषु = ज्ञानावरणादिप्रभृतिषु भङ्गत्रयम्। तद्बन्धस्य = अभव्याश्रितस्य ध्रुवबन्धिप्रकृतिबन्धस्य। संतानभावे = अनवरतं, सततं इति यावत्। अद्धाक्षयेण वा = एकादशगुणस्थानस्य यः कालः, तत्परिसमाप्त्या। अनिवृत्तिबादरादिः = आदिपदात् सूक्ष्मसम्पराय:, यस्मात् संज्वलनलोभस्य बन्धविच्छेदं स करोति इति ।
अपूर्वकरणाद्धायां = अष्टमगुणस्थानसमये यथास्थानं = यासां प्रकृतीनां अष्टमगुणस्थानसमये एव यस्मिन्कालविभागे बन्धविच्छेदस्थानं, तासां तस्मिन्स्थाने।
इत्येवं ध्रुवबन्धिनीनां भङ्गत्रयम्। एतदन्तं यावत् प्रायः सर्वं सुगममिति न विवृतम्। द्वितीयपञ्चमकर्मग्रन्थाभ्यास: प्रस्तुतपदार्थस्पष्टीकरणायावश्यक इति।
यशो.: साद्यनन्तभङ्गकस्तु विरोधादेवानुद्भाव्यः। अध्रुवबन्धिनीनां त्वध्रुवबन्धित्वादेव सादिसान्तलक्षण एक एव भङ्गो लभ्यते। अधिकमस्मत्कृतकर्मप्रकृतिवृत्त्यादेरवसेयम् ॥१२॥
यन्द्र.: ननु एतासां प्रकृतीनां बन्धस्य साद्यनन्तभङ्गकः कथं न प्रतिपादितः? इति चेत्, साधनन्तभङ्गकस्तु विरोधादेव = यदि कस्यचित्कर्मणो बन्धः सादिः, तर्हि स अनन्तो नैव भवेत्, यदि चानन्तः, तर्हि सादिर्नैव भवेदित्येवं विरोधादेव अनुद्भाव्यः = अविचारणीयः।
ननु अध्रुवबन्धिनीनां को भङ्गो भवेदित्यत आह - अध्रुवबन्धिनीनां तु अध्रुवबन्धित्वादेव = कदाचिद् बन्धः कदाचिच्च नेत्येवंस्वरूपत्वादेव सादिसान्तलक्षण एक एव = न तु अनाद्यनन्तादिरूपा अन्ये