SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ कूपदृष्टान्तविशदीकरणं ततश्च तत्कारणीभूता द्रव्यहिंसाऽपि तत्र मन्तव्या, ततश्च तत्रापि अल्पपापबहुपुण्यात्मकफलसद्भावात् भवति कूपदृष्टान्तापत्तिरिति । न चैतदिष्टम्, तस्मात् ‘द्रव्यहिंसा ज्ञानावरणादिहेतुः' इति नैव मन्तव्यम् । एष भावार्थ: प्रतिपादितः । अधुनाऽक्षरार्थः । एवंविधे च = सातादिबन्धज्ञानावरणादिबन्धस्वरूपे अर्थसमाजसिद्धे = अर्थानां = भक्तिभावद्रव्यहिंसा ध्रुवबन्धिबन्धकारणीभूतसामान्यहेतूनां समाजेन = समूहेन सिद्धे = समुत्पन्ने चार्थे = कार्ये नियतोक्तहेतुत्वाश्रयणे नियतं यत् उक्तं हेतुत्वं यथा केवला द्रव्यहिंसाऽत्र ध्रुवबन्धिबन्धकारणमित्यादि, तत्स्वीकारे पौषधादौ आदिपदात् सर्वविरत्यादौ अतिप्रसङ्गः कूपदृष्टान्तापत्तिः भवेत् । तत्र कारणमाह - तदाऽपि पौषधादिकालेऽपि, ‘आस्तां द्रव्यस्तवकाले' इत्यपिशब्दार्थः, अल्पज्ञानावरणादिबन्धानुपरमात्= अल्पस्य ज्ञानावरणादिबन्धस्य सततं सद्भावात् । = = 4 = ननु पौषधादौ ज्ञानावरणादिकं अत्यन्तमल्पं, तदपेक्षया द्रव्यस्तवेऽधिकमिति पौषधादौ अत्यल्पज्ञानावरणादिकारणं सामान्यहेतवो मिथ्यात्वादयः, द्रव्यस्तवे पौषधाद्यपेक्षया अधिकज्ञानावरणादिकं यद् बध्यते, तत्कारणं द्रव्यहिंसेति एवं द्रव्यहिंसा ज्ञानावरणादिपापकर्मबन्धकारणं स्यादेव इति पूर्वपक्षाशङ्कायां सम्भवन्त्यां सत्यामाह - इति दिक् । तथा च दिक्सूचनमेव कृतमस्माभिः, बहु च वक्तव्यमस्मिविषये अस्ति तत्तु अधुना नोच्यते, केवलं भवता यत्कथितं यदुत अल्पज्ञानावरणादिबन्धे सामान्यहेतवः कारणं अधिकज्ञानावरणादिबन्धे तु द्रव्यहिंसा' इति... तत्तुच्छम् । यस्मात् लघुघटे मृत्कारणं, बृहद्घटेऽपि मृदेव कारणं, न तु तन्तवः । केवलं लघुघटे अल्पा मृद्, बृहद्घटे च बहवी मृद् कारणम् इति । एवं यदि अल्पज्ञानावरणादिबन्धे सामान्यहेतवः कारणम्, तर्हि बहुज्ञानावरणादिबन्धे विशिष्टाः सामान्यहेतव एव कारणं भवेत्, न तु द्रव्यहिंसादि इत्यादि सूक्ष्मप्रज्ञया निभालनीयं इति संक्षेपः । यशो. : अत्रेयं ध्रुवबन्धादिप्रक्रिया- निजहेतुसद्भावे यासामवश्यंभावी बन्धस्ता ध्रुवबन्धिन्यस्ताश्च वर्णचतुष्कं तैजसं, कार्मणमगुरुलघु, निर्माणोपघातभयकुत्सामिथ्यात्वं, कषायाः, ज्ञानावरणपञ्चकं, दर्शनावरणनवकं, विघ्नपञ्चकमिति सप्तचत्वारिंशत् । यासां च निजहेतुसद्भावेऽपि नावश्यंभावी बन्धस्ता अनुववविन्यस्ताश्चौदारिकवैक्रियाहारकशरीराणि, तदुपाङ्गानि त्रीणि, संहननषट्कं, संस्थानषट्कं गतिचतुष्कं खगतिद्विकमानुपूर्वीचतुष्टयं, | जिननामोच्छ्वासनामोद्योतनामाऽऽतपनाम, पराघातनाम, त्रसदशकं, स्थावरदशकं, गोत्रद्विकं, वेदनीयद्विकं, हास्यादियुगलद्वयं जातिपञ्चकं, वेदत्रयमायुश्चतुष्टयमिति त्रिसप्ततिः, | निजहेतुसद्भावेऽप्यवश्यंबन्धाऽभावात् । एतासां चन्द्र.: अत्रेयं ध्रुवबन्धादिप्रक्रियेत्यादि अवश्यंबन्धाभावात् इति यावत् सर्वं स्पष्टम् । , = ८०
SR No.022223
Book TitleKupdrushtant Vishadikaranam
Original Sutra AuthorN/A
AuthorChandreshakharvijay
PublisherKamal Prakashan Trust
Publication Year
Total Pages106
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy