SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ - C N कूपदृष्टान्तविशदीकरणं - यशो. : तबाह - तत्त्वे = द्रव्य (स्तव) स्थलीयहिंसायाः ध्रुवबधिपापप्रकृतिविशेषहेतुत्वे, इतरेतराश्रयता = अन्योन्याश्रयदोषः, द्रव्यस्तवीयद्रव्यहिंसाया भावहिंसात्वसिद्धौ उक्तहेतुत्वसिद्धिः, तत्सिद्धौ च भावहिंसात्वमिति। यन्द्र.: महोपाध्यायाः समादधति तत्त्वे इत्यादि। यदि द्रव्यस्तवी या हिंसा ज्ञानावरणादिपापप्रकृतिविशेषहेतुर्मन्येत तर्हि इतरेतराश्रयता = अन्योन्याश्रयदोषः, एनमेवाह - द्रव्यस्तवीयेत्यादि । द्रव्यस्तवे या द्रव्यहिंसा भवति, सा यदि भावहिंसा सिध्येत्, तदैव सा ज्ञानावरणादिबन्धहेतुः सिध्येत्, यस्मात् केवला द्रव्यहिंसा तु तादृशबन्धहेतुर्नैव भवति। परन्तु सा द्रव्यहिंसा भावहिंसा तु तदैव सिध्येत्, यदा सा ज्ञानावरणादिबन्धहेतुः सिध्येदित्येवं स्पष्टैवान्योन्याश्रयता। ___ यशो.: द्रव्यहिंसा त्वाऽऽसयोगिकेवलिनमवर्जनीया । यन्द्र.: ननु द्रव्यहिंसा केवलाऽपि ज्ञानावरणादिबन्धहेतुः किं न मन्येत? इत्यतः प्राक् समाधानं यद्यपि प्रदत्तमेव बहुशः, तथाऽप्याह - द्रव्यहिंसा तु = केवला आसयोगिकेवलिनं = त्रयोदशगुणस्थानं यावत् अवर्जनीया। तथा च यदि सा केवला ज्ञानावरणादिकारणं स्यात्, तर्हि त्रयोदशगुणस्थानं यावत् ज्ञानावरणादिबन्धो मन्तव्यः स्यात्। यशो.: एवंविधे चार्थसमाजसिद्धे चार्थे नियतोक्तहेतुत्वाश्रयणे पौषधादावतिप्रसङ्गस्तदाष्यल्प||ज्ञानावरणीयादिबधानुपरमादिति दिक्। यन्द्र.: तथा केवलाया द्रव्यहिंसाया ज्ञानावरणादिबन्धहेतुत्वस्वीकारे अन्याऽप्यापत्तिर्भवतीत्येतद् आह – एवंविधे चेत्यादि। अयं भावः, गुडनागरघृतमिश्रणात्मकमौषधं पित्तकफवातनाशकमनुभवसिद्धम्। अत्र च गुडः पित्तनाशक:, नागरं कफनाशकं, घृतं वायुनाशकमिति गुडादीनां तत्तत्कार्यं प्रति पृथगेव कारणत्वम्। परन्तु अत्र त्रयाणां कारणानां समूहः सञ्जातः, तेन च पित्तकफवातनाशनात्मकं कार्यं सञ्जातम्। ततश्च यदि कश्चिदेवं मन्येत यदुतात्र गुडः कफनाशकः, नागरं पित्तनाशकं इत्यादि, ततश्च तन्मिथ्यैवेति स्पष्टमेव। प्रकृतेऽप्यवमेव। तथाहि-भक्तिभावः सातबन्धादिकारणं, केवला द्रव्यहिंसा तु न कस्यापि बन्धस्य कारणं, ध्रुवबन्धिप्रकृतिसामान्यहेतवस्तु कषायादयः अत्र ध्रुवबन्धिबन्धकारणम्। ततश्च भक्तिभावद्रव्यहिंसासामान्यहेतूनां समूहेनात्र सातबन्धज्ञानावरणादिबन्धात्मकं कार्यं सञ्जातम्। तत्र यदि कश्चिन्मन्येत यदुत अत्र द्रव्यहिंसाऽस्ति, तस्मादत्र ज्ञानावरणादि कर्मबन्धो भवति, तर्हि तन्मिथ्यैव, यस्मात् स तु सामान्यहेतुसद्भावादेव भवति, न तु द्रव्यहिंसायाः सकाशादिति। यदि नैवं मन्येत, तर्हि पौषधादावपि कूपदृष्टान्तापत्तिः, यस्मात् तत्राऽपि ज्ञानावरणादिबन्धस्तु भवत्येव।
SR No.022223
Book TitleKupdrushtant Vishadikaranam
Original Sutra AuthorN/A
AuthorChandreshakharvijay
PublisherKamal Prakashan Trust
Publication Year
Total Pages106
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy