SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ कूपदृष्टान्तविशदीकरणं यदि हि द्रव्यस्तवीया हिंसा ध्रुवबन्धिप्रकृतिबन्धकारणं स्यात्, तर्हि साधुषु तादृशहिंसाऽभावात् ध्रुवबन्धिबन्धो न स्यादिति, किन्तु भवत्येव मन्तव्यं । तस्मात्स्पष्टमेव मन्तव्यं यदुत द्रव्यस्तवीया हिंसा न ध्रुवबन्धिबन्धकारणं, किन्तु मिथ्यात्वादिरूपाः सामान्यहेतव एवेति । यशो.: अथाऽसातप्रकृतित्वावच्छिन्न इव पापप्रकृतित्वावच्छिन्नेऽपि हिंसाया हेतुत्वस्य शास्त्रे व्यवस्थितत्वात् 'यत्सामान्ये यत्सामान्यं हेतुस्तद्विशेषे तद्विशेष:' इति न्यायात् द्रव्यस्तवस्थलीयहिंसाया | ज्ञानावरणीयादिप्रकृतिविशेषे हेतुत्वम् । चन्द्र. : पूर्वपक्ष: पुन: शङ्कते - अथासातेत्यादि । असातप्रकृतित्वावच्छिन्न इव = सर्वानेव असातबन्धान् प्रतीत्यर्थः, पापप्रकृतित्वावच्छिन्नेऽपि = सर्वानेव पापप्रकृतिबन्धान् प्रतीत्यर्थः । हिंसायाः हेतुत्वस्य 'हिंसा हेतु:' इत्यस्य शास्त्रे व्यवस्थितत्वात् । सकलस्मिन्विश्वे यस्य कस्याऽपि जीवस्य यः कोऽपि असातबन्धो भवति, तं प्रति हिंसा कारणम्, एवमेव सकलस्मिन्विश्वे यस्य कस्यापि जीवस्य यः कोऽपि पापबन्धो भवति, तं प्रति हिंसा कारणम्। एवं तावच्छास्त्रे प्रतिपादितम् । अनेनैतत्सिद्धं यदुत 'हिंसा पापबन्धसामान्ये सामान्यं कारणम्' इति। तथा अयं न्यायो यदुत ‘यत्सामान्ये यत्सामान्यं हेतु:, तद्विशेषे तद्विशेषः' इति । ततश्च यदि पापबन्धसामान्ये हिंसासामान्यं हेतु:, तर्हि ज्ञानावरणादिरूपस्य पापस्य बन्धे विशेषरूपे द्रव्यस्तवीयहिंसारूपो विशेष एव कारणमिति सिध्यति । एवं च द्रव्यस्तवीया हिंसा ज्ञानावरणादिपापं बन्धयतीति सिद्धम् । यशो.: भक्तिरागोपनीयमानप्रकृतिविशेषेषु बहुभागपाताच्च तत्राऽल्पतरभागोपनिपातेनाल्पत्वमिति चेत् ? = चन्द्र. : अधुना द्रव्यस्तवे अल्पपापं बहु च पुण्यं कथमित्येतत्साधयति - भक्तिरागोपनीय इत्यादि । द्रव्यस्तवे हिंसावद् भक्तिरागोऽप्यस्ति, ततश्च तद्वशात् तत्र उपनीयमाना ये सातादयः पुण्यप्रकृतिविशेषाः, तेषु बहुभागपाताच्च बध्यमानकर्मदलिकानां मध्यात् बहोर्भागस्य पातात् तत्र = पापबन्धे अल्पतरभागोपनिपातेन = पुण्यबन्धभागापेक्षयाऽल्पतरभागस्य उपनिपातेन अल्पत्वम् । अयं पूर्वपक्षाशयः - द्रव्यस्तवीया हिंसा ज्ञानावरणादि बन्धयति, द्रव्यस्तवीयो भक्तिभावश्च सातादि बन्धयति, तत्र ज्ञानावरणादौ बध्यमानकर्मदलिकानां मध्यादल्पो भागः, सातादौ तु अधिको भागः निपततीति कृत्वा अल्पपापबहुपुण्यात्मकं फलं द्रव्यस्तवे सिद्धमिति । = ७८
SR No.022223
Book TitleKupdrushtant Vishadikaranam
Original Sutra AuthorN/A
AuthorChandreshakharvijay
PublisherKamal Prakashan Trust
Publication Year
Total Pages106
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy