________________
कूपदृष्टान्तविशदीकरणं
द्वादश्या गाथायाः संस्कृतछाया अन्वयश्चेत्थम् - द्रव्यस्तवे हिंसया ध्रुवबन्धिपापहेतुत्वं न ।
यत् तत्त्वे इतरेतराश्रयात् ध्रुवबन्धा असाध्या ॥ १२ ॥
यशो : ध्रुवबन्धिपापस्य ज्ञानावरणादिप्रकृतिकदम्बकरूपस्य हेतुत्वं न द्रव्यस्तवीयहिंसायां | वक्तुं युक्तम्। यद् = यस्मात् ध्रुवबन्धा असाध्याः प्रक्रमाद् द्रव्यस्तवभाविहिंसायाः, सामान्यहेतुसद्भावे | ह्यवश्यंसम्भविबन्धाः ।
2103.: ध्रुवबन्धिपापस्य = स्वहेतुसत्त्वे यस्य अवश्यंभावी बन्धः, तत् ध्रुवबन्धिपापं, अथवा स्वबन्धविच्छेदो यस्मिन्गुणस्थाने, तद्गुणस्थानं यावत् यस्यावश्यंभावी बन्धः, तत् ध्रुवबन्धिपापम् । तद्भिन्नं ध्रुवन्धि
यथा मिथ्यात्वस्य स्वहेतोः मिथ्यात्वोदयस्य सत्त्वे अवश्यंभावी बन्धः, अथवा मिथ्यात्वबन्धविच्छेदसम्बन्धिनं प्रथमगुणस्थानं यावत् तत् अवश्यं बध्यत इति तद् ध्रुवबन्धि ।
नरकायुषः स्वबन्धहेतुः मिथ्यात्वं, परन्तु मिथ्यात्वसत्त्वे तस्यावश्यंभावी बन्धो न, अथवा मिथ्यात्वगुणस्थाने नरकायुषो बन्धविच्छेदः, किन्तु तद्गुणस्थानं यावत्तस्यावश्यंभावी बन्धो नेति तद् अध्रुवबन्धि | एतत्सर्वं पञ्चमकर्मग्रन्थे स्पष्टमेव ।
ततश्च ज्ञानावरणादिप्रकृतिसमूहरूपस्य ध्रुवबन्धिपापस्य कारणता द्रव्यस्तवसम्बन्धिन्यां हिंसायां वर्तते, इति वक्तुं न योग्यम् । कस्मान्न योग्यमित्याह
=
यद् यस्माद् ध्रुवबन्धा असाध्याः = अजन्याः । ननु कस्माद्वस्तुनः प्रक्रमात् = प्रस्तावात् द्रव्यस्तवभाविहिंसायाः हेतोः ।
सकाशादजन्याः ? इत्यत आह
ध्रुवबन्धा हि मिथ्यात्वादिरूपं यत् स्वस्य स्वस्य सामान्यकारणं, तत्सत्त्वे अवश्यंभाविनः, न तु द्रव्यस्तवीयहिंसारूपविशेषकारणात् अवश्यंभाविनः, तेषां सत्त्वेऽसत्त्वेऽपि ध्रुवबन्धिपापस्यावश्यम्भावात्।
-
यशो. : अत एव यत्र गुणस्थाने तासां व्यवच्छेदस्ततोऽर्वाक् सततबन्ध एवेति सादिसान्तादिभड्गग्रन्थे व्यवस्थितम् ।
=
चन्द्र.: अत एव = सामान्यहेतुसद्भावे ध्रुवबन्धानामवश्यंभावित्वादेव कारणात् यत्र गुणस्थाने : प्रथमादिरूपे तासां = मिथ्यात्वादिप्रकृतीनां व्यवच्छेदः = बन्धव्यवच्छेदः, ततोऽर्वाक् = तस्मात्पूर्वस्मिन्गुणस्थाने सततबन्ध एव = न तु कारणविशेषाभावात् बन्धोपरम इत्येवकारार्थः सादिसान्तादिभङ्गग्रन्थे = ध्रुवबन्धिनां अनाद्यनन्तबन्धोऽभव्यानां, अनादिसान्तबन्धो बन्धविच्छेदगुणस्थानमतिक्रान्तानां, सादिसान्तबन्धः पुनः अधस्तनगुणस्थानमागतानां, एवं सादिसान्तादिभङ्गप्ररूपके ग्रन्थे व्यवस्थितम् ।
७७