SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ CM कूपदृष्टान्तविशदीकरणं - यन्द्र.: ननु देवानां अकर्कशवेदनीयं कर्म मा मन्यतां नाम, को दोषः? एवं यमिभिन्नानामपि सकामा निर्जरा मा मन्यतां नाम, को दोषः? किमिति प्रौढिवादकल्पनेन? इति शङ्कायामाह - अन्यथा = एते पाठाः प्रौढिवादाः, तेषां चोत्कृष्टनिषेधपरत्वमेवेति यदि न मन्यते, तर्हि तदीयभगवद्वन्दनगुणोत्कीर्तनादीनामपि = भक्तिमद्भिः देवैः क्रियमाणानां भगवतो वन्दनगुणोत्कीर्तनादिरूपाणां शुभानुष्ठानानामपि, 'तेषां भोगसुखादीनां तावत् अकर्कशवेदनीयाजनकत्वमिष्टमेव, परन्तु एतादृशशुभयोगानामपि' इत्यपि शब्दार्थः । अतादृशत्वापत्तेः = अकर्कशवेदनीयकर्मबन्धाकारकत्वापत्तेरिति। विभावनीयं = सम्यक् चिन्तनीयं सुधीभिः = विवेकिभिरिति। ननु चतुर्णां प्रश्नानां मध्ये व्योः समाधानं निगदितं भवता, किन्तु तृतीयचतुर्थयोस्तु समाधानमवशिष्टमिति चेत्, श्रुणु। एकेन्द्रियाः प्राणादीनां दुःखनतादिकं न कुर्वन्तीत्यपेक्षया सातबन्धः, ते एव च प्राणादीनां दुःखनतादिविरतिभाजो न भवन्ति, इति तेषां यदाऽसातबन्धः, तदा तत्प्राधान्यं कृत्वाऽसातबन्धो गण्यते। ___ अयं भावः - सातबन्धकाले एकेन्द्रियादीनां अनाभोगतोऽपि कश्चिच्छुभपरिणामो मन्तव्य एव, स च अदुःखनतादिरूपः, तथाऽसातबन्धकाले एकेन्द्रियादीनां अनाभोगतोऽपि कश्चिदशुभपरिणामो मन्तव्य एव, स च दुःखनतादिरूप इत्येवं तृतीयचतुर्थसूत्रयोरपि समाधानं समवसेयम्। यशो.: ननु द्रव्यस्तवे भक्तिजन्यसातावेद्यबधेन विरुध्यन्नसातबन्धो मा भूत्, पृथिव्याधुपमर्दात् |ज्ञानावरणीयादिबन्धहेतुत्वादेव तस्य हिंसात्वमक्षतमित्याशङ्कायामाह - धुवबन्धिपावहेउत्तणं ण दव्वत्ययंमि हिंसाए । धुवबन्धा जमसज्झा, तत्ते ३इयरेयरासयया ॥१२॥ यन्द्र.: शङ्कते ननु द्रव्यस्तवे इत्यादि। सातस्यासातस्य च परस्परं विरोधित्वात् एकबन्धकाले अपरबन्धो मा भवतु, परन्तु सातबन्धकाले ज्ञानावरणादिबन्धस्तु न विरोधी। ततश्चैवं मन्तव्यं यदुत द्रव्यस्तवकाले पृथिव्यादिहिंसावशात् ज्ञानावरणादिकबन्धः, स चाल्पः, तदपेक्षया भक्तिवशात् सातबन्धोऽधिकः, इत्थं चाल्पपापबहुपुण्यरूपं फलं भवेत्। ततश्च कूपदृष्टान्त उपपद्यते, उत्तरकालीनशुभभावेन प्राक्कालीनज्ञानावरणादिविगमसम्भवात्। एतदेवाह - पृथिव्यादि इत्यादि। तस्य = द्रव्यस्तवस्य। द्रव्यस्तवो हि पृथिव्याधुपमर्दवशात् ज्ञानावरणादिबन्धहेतुः, ततश्च स हिंसा इति भावः । एवं आशङ्कायां सत्यां आह -
SR No.022223
Book TitleKupdrushtant Vishadikaranam
Original Sutra AuthorN/A
AuthorChandreshakharvijay
PublisherKamal Prakashan Trust
Publication Year
Total Pages106
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy