________________
- कूपदृष्टान्तविशदीकरणं । (३) तथा चतुर्विंशतिदण्डकेषु सातबन्ध उक्तः, किन्तु अत्र सातबन्धः प्राणादीनां अदुःखनाशोचनादिभिरभिप्रेतः, तादृशश्च सातबन्ध एकेन्द्रयादिषु कथं सम्भवेत् ? ते हि अदुःखनाशोचनादि न कुर्वन्त्येव।
किञ्च यदि एकेन्द्रिया अदुःखनाशोचनादिभिः सातं बध्नन्ति, तर्हि प्राणादीनां अदुःखनादि एव प्राणातिपातविरमणं, ततश्च तेषु प्राणातिपातविरमणसिद्धिः, ततश्च द्वितीयसूत्रानुसारेण तेषु अकर्कशवेदनीयापत्तिर्दुरिति।
(४) तथा एकेन्द्रिया: परदुःखनतादि न कुर्वन्ति, तत एकेन्द्रियाणां तज्जन्यमसातं चतुर्थसूत्रोक्तं कथं घटेतेति।
अत्र महोपाध्यायाः समादधति -
वस्तुतः = परमार्थतः अनिवर्तनीयाशुभानुबन्धं = निवर्तयितुं अयोग्योऽशुभानुबन्धो यत्कर्मणः, तत् कर्म कर्कशवेदनीयम्।
तथा च हे प्रश्नकार! भगवतीवृत्तौ यदुक्तं यदुत 'कर्कशरौद्रदुःखैर्वेद्यन्ते यानि तानि कर्कशवेदनीयानि' तत् स्थूलव्यवहारत उक्तम्। यस्मात् एकेन्द्रिया न तादृशतीव्राध्यवसायेन प्राणातिपातादीनि कुर्वन्ति, येन तेषां कर्कशवेदनीयं कर्म बध्येत। परन्तु तेषां अविरत्यादिमाहात्म्यात् तादृशं कर्म बध्यते, यत्कर्म उदयमागतं सन् पुनरपि तादृशं कर्म बन्धयति, एवं अनिवर्तनीयाशुभानुबन्धवत् कर्म तेषां भवति, एतदेव च तेषां कर्कशवेदनीयं कर्म।
यथाहि कस्यचित् सद्योघाती महान् शूलादिस्वरूपो रोगो भवति, कस्यचित्तु जीवितानपहार्यपि चिरकालस्थायी औषधादिभिरपि अनिवारणीयो ज्वरादिरूपः सामान्यरोगो भवति, परन्तु द्वितीयरोगोऽपि प्रभूतानर्थकार्येव। ___ एवं प्रकृते नरकादिसम्बन्धिदुःखैः वेदनीयं कर्म महारोगसदृशम्, निगोदादिस्थानसम्बन्धिसामान्यदुःखैः वेदनीयं किन्तु दीर्घकालं यावद् वेदनीयं कर्म दीर्घकालस्थायि सामान्यरोगसदृशं, परन्तु तस्यानुबन्धो निवारयितुं न शक्यत इति कृत्वा तत् कर्कशवेदनीयमेव।
तथा चैकेन्द्रियाणां उत्कटदुःखोत्पादककर्म तीव्राध्यवसायाभावात् मा भवतु नाम, किन्तु चिरकालीनानुत्कटदुःखोत्पादककर्म तु भवितव्यतादिवशात्सम्भवत्कर्कशमेवेति प्रथमप्रश्नसमाधानमिति।
अतादृशं = निवर्तनीयाशुभानुबन्धं कर्म अकर्कशवेदनीयं, । __यशो.: वैमानिकादिषु तनिषेधश्च प्रौढिवादः विशिष्टविरतिपरिणामजनिताऽशुभानुबन्धापनयापेक्षया ।
A