SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ कूपदृष्टान्तविशदीकरणं चन्द्र. : अधुना द्वितीयप्रश्नस्य समाधानमाह - वैमानिकादिषु तन्निषेधश्च = अकर्कशवेदनीयकर्मनिषेधश्च बहुमान्यपुरुषपरम्परासमायातो वादः विशिष्टविरतिपरिणामजनिताशुभानुबन्धापनयापेक्षया । प्रौढिवादः अयं भावः साधोः प्राणातिपातादिविरमणं सर्वथाऽस्ति, तिर्यग्देशविरतिधरस्य देशतोऽस्ति, वैमानिकादीनामपि मिथ्यादर्शनशल्यविरमणं अस्ति । ततश्च तादृशविरमणप्रभावात् साधोः तिर्यग्देशविरतिधरस्य वैमानिकादीनां च सर्वेषां अशुभानुबन्धस्य निवर्तनं भवत्येव । ततश्च सर्वेषां निवर्तनीयाशुभानुबन्धं कर्म अर्थात् अकर्कशवेदनीयं कर्म भवत्येव । तथाऽपि अत्र तिर्यक्षु वैमानिकादिषु च तन्नोक्तं, तत्र कारणं तु इदमेव, यदुत यो विशिष्टो विरतिपरिणामः, तज्जनितो योऽशुभानुबन्धापनयः, च तद्वदेव कर्मा अकर्कशवेदनीयतया ग्राह्यमिति विवक्षितम्। तिर्यक्षु सर्वविरतिपरिणामो नास्ति, वैमानिकादिषु तु देशविरतिपरिणामोऽपि नास्ति, ततश्च तेषु अकर्कशवेदनीयं न स्वीकृतम् । देशविरतिपरिणामजन्यस्याशुभानुबन्धापनयस्य मिथ्यादर्शनविरमणजन्यस्य चाशुभानुबन्धापनयस्य तेषु सत्त्वात् तदपेक्षया तु तेष्वपि अकर्कशवेदनीयं अस्त्येव । यदि तु नैवं मन्येत, तर्हि तेषु मिथ्यात्वशल्यस्य विरमणं निरर्थकमेव स्यात्। यशो : अन्यथा मिथ्यादर्शनशल्यविरमणस्याऽपि तत्र नैष्फल्यापत्तेः । = — चन्द्र. : एतदेवाह अन्यथा = ‘विशिष्टविरतिपरिणामजनितस्याशुभानुबन्धापनयस्य अपेक्षयैव अकर्कशवेदनीयं कर्मात्राभिप्रेतं, इत्येवं यदि न मन्येत, किन्तु सामान्यत एव 'निवर्तनीयाशुभानुबन्धं कर्म अकर्कशवेदनीयं' इति यदि मन्येत, तर्हि मिथ्यादर्शनशल्यविरमणस्यापि = 'प्राणातिपातादिविरमणस्य तु असद्भावात् तत्र तस्य निष्फलत्वं तावद् भवेदेव, परन्तु यदेतत् मिथ्यात्वविरमणं वैमानिकादिषु अस्ति, तस्यापि' इत्यपिशब्दार्थः। तत्र = वैमानिकादिषु नैफल्यापत्तेः अकर्कशवेदनीयकर्मस्वरूपस्यफलस्याभावात् अन्यफलस्य चाप्रतिपादनात् फलरहितत्वापत्तेः। अस्मन्मते तु नेयमापत्तिः, 'विशिष्टविरतिपरिणामजनितस्यैव अशुभानुबन्ध - अपनयस्य तत्राभाव' इति स्वीकारात् ‘मिथ्यादर्शनविरतिपरिणामजनितस्य अशुभानुबन्धस्यापनयनं तत्र सम्भवत्येव, न शास्त्रपाठविरोध' इति । भवन्मते तु वैमानिकादिषु अकर्कशवेदनीयकर्मण एवाभाव:, ततश्च तत्र केनाऽपि प्रकारेणाशुभानुबन्धापनयनमस्वीकृतमेवेति भवेदेव तत्र मिथ्यात्वविरमणस्य निष्फलतापत्तिः। यशो.: सर्वसंवरस्य च शैलेश्यामेव सम्भवादिति द्रष्टव्यम् । चन्द्रः नन्वेवं सापेक्षमेव कर्म अकर्कशवेदनीयं उच्यते, तत्र च विशिष्टविरतिपरिणाम एवाधिक्रियते 'तु देशविरतिपरिणामो मिथ्यात्वविरमणपरिणामश्च, तर्हि ताविवं विशिष्टविरतिपरिणामोऽपि मुच्यताम्, ७४ =
SR No.022223
Book TitleKupdrushtant Vishadikaranam
Original Sutra AuthorN/A
AuthorChandreshakharvijay
PublisherKamal Prakashan Trust
Publication Year
Total Pages106
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy