SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ कूपदृष्टान्तविशदीकरणं यशो : अस्थि णं भंते! जीवा णं अस्साया वेअणिज्जा कम्मा कज्जंति ? हंता अस्थि । कहण्णं भंते! जीवा णं अस्साया वेअणिज्जा कम्मा कज्जंति ? गो० परदुक्खणयाए, परसोअणयाए, परजूरणयाए, परतिप्पणयाए, परपीडणयाए, परपरियावणयाए, बहूणं पाणाणं जाव सत्ताणं दुक्खणयाए जाव परितावणयाए । एवं खलु गो० जीवा णं अस्सायावेअणिज्जा कम्मा कज्जति । एवं णेरइआण वि एवं जाव वेमाणियाणं ॥ ' थन्द्र. : अधुना चतुर्थसूत्रम् - तत्तु तृतीयसूत्राद् विपरीतं ज्ञेयम्, भावार्थस्तु तस्य स्पष्ट एवेति । यशो. : कर्कशरौद्रदुःखैर्वेद्यन्ते यानि तानि कर्कशवेदनीयानि, स्कन्दकाऽऽचार्यसाधूनामिव । | अकर्कशेन सुखेन वेद्यन्ते यानि तान्यकर्कशवेदनीयानि भरतादीनामिव। दुःखस्य करणं दुःखनं तद् (न) विद्यते यस्य तद्भावोऽदुःखनता तया । एतदेव प्रपञ्च्यते - असोयणयाए ति दैन्यानुत्पादेन, अजूरणयाए त्ति शरीरापचयकारिशोकानुत्पादनेन, अतिप्पणयाए त्ति अश्रुलालादिक्षरणकारिशोकानुत्पादनेन, अपीडणयाए ति यष्ट्यादिपीडनपरिहारेण, अपरितावणयाए त्ति शरीरपीडानुत्पादनेनेति वृत्तिः ॥ यन्द्र.: अधुना सूत्रचतुष्कसम्बन्धिनी भगवतीवृत्तिः प्रदर्श्यते - कर्कशरौद्रेत्यादि । सा च सुगमैव, नवरं स्कन्दकाचार्यसाधूनामिव = पालकेन यन्त्रके तिलकवत् पीडितानाम् इव भरतादीनामिव = आदर्शगृहे केवलज्ञानप्राप्तिमताम्। यशो.: वस्तुतो अनिवर्त्तनीयाशुभानुबन्धं कर्कशवेदनीयम्, अतादृशमकर्कशवेदनीयम् । थन्द्रः ननु भगवतीसूत्रचतुष्कस्यार्थेऽनेके प्रश्नाः, तथाहि - (१) एकेन्द्रिया जीवाः प्राणातिपातादीन् अकुर्वाणाः कथं कर्कशवेदनीयकर्मबन्धका उक्ताः ? यदि च तेषामविरतिसद्भावात् कर्कशवेदनीयं कर्म उच्येत, तर्ह्यपि तन्न युक्तम् । यस्मात् अविरतिपरिणामेन यद्यपि तेषां भवतु नामऽसातं कर्म, परन्तु तीव्राध्यवसायाभावात् तेषां तत्कर्म कर्कशरौद्रदुःखैः वेदनीयं तु नैव भवति। किन्तु सामान्यदुःखैरेव वेदनीयं भवति । इत्थं च एकेन्द्रियाणां कर्कशवेदनीयकर्मबन्धोऽनुपपन्न इति प्रथमः प्रश्नः। (२) द्वितीयसूत्रे मनुष्यणामेव अकर्कशवेदनीयकर्मबन्ध उक्तः, न तु अन्येषां दण्डकानां। तत्र अकर्कशवेदनीयकर्मबन्धकारणानि तु प्राणातिपातादिविरमणान्येव प्रतिपादितानि, ततश्च वैमानिकदेवप्रभृतिषु मिथ्यादर्शनशल्यरूपस्याष्टादशमस्य पापस्थानस्य विरमणसद्भावात् तेषु अकर्कशवेदनीयकर्मबन्धः सम्भवेदेव, स किमर्थं अत्र नोक्तः ? तथा पञ्चेन्द्रियतिर्यक्षु तु देशविरतिपरिणामस्वीकारात् प्राणातिपातादीनामपि लेशतो विरमणमस्त्येव इति तेष्वपि अकर्कशकर्मबन्धो वक्तव्यः, न चोक्त इति प्रश्नः । ૭૨
SR No.022223
Book TitleKupdrushtant Vishadikaranam
Original Sutra AuthorN/A
AuthorChandreshakharvijay
PublisherKamal Prakashan Trust
Publication Year
Total Pages106
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy